सामग्री पर जाएँ
सर्वकोश
शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)

शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)

Shivadrishti of Somanandanatha with Utpaladeva Vritti

सोमानन्दनाथ (वृत्ति: उत्पलदेव) द्वारा

DevanagariHindipublished188 पृष्ठ

पृष्ठ 56, कुल 188 में से

संदर्भ में पढ़ें
पृष्ठ 56

४० शिवदृष्टिः [ आ०-२
यद्याभासान् घटपटादिरूपान् इदन्तया पश्यति, तत् तेषां सत्या-
सत्यताविचारे सत्यता तावदसत्यविभक्तान्यरूपोपग्राहितात्मकं विवर्त-
मिच्छद्भिः दर्शनभ्रंशभयान्न वाच्या, असत्ये पुनर्दृश्ये नासत्यार्थदर्शित्वे
पश्यन्त्याः सत्यतायोगः ॥ २१ ॥
अविद्यावादोऽपि न युक्त इत्याह--
गृह्णात्यथाविद्यया वा साप्यस्याः कथमास्थिता ॥ २२ ॥
सत्या ह्यसावसत्या वा सत्यत्वे दर्शनक्षतिः ।
असत्ययापि सत्यस्य संबन्धोऽतीव दुर्घटः ॥ २३ ॥
अनाद्यविद्यावशादपि असत्यदर्शने मिथ्यात्वं तावदस्याः स्थितम्,
अविद्ययापि च संबन्धो न तस्या घटते, अविद्या हि अविद्यात्वाभ्युपगमा-
देवासत्या, न चासत्यया संबन्धो रूपश्लेषमयो युक्तः ॥ २३ ॥
न च पश्यन्त्यप्यसत्या युक्तेत्याह--
असत्या यदि पश्यन्ती पश्यन्ती ब्रह्म चित्रता ।
पश्यन्ती यद्यसत्या, तत् पश्यन्ती ब्रह्मतत्त्वमित्याश्चर्यरूपता-
स्यार्थस्य ॥
अन्यच्चाह--
बहिर्भावान्विसृज्यादौ पश्चात्पश्यति¹ साथ किम् ॥ २४ ॥
सत्या सृजत्यसत्यानि विचित्रमभिधीयते ।
किं तत्त्वान्तराभावाद्विश्वे भावाः पश्यन्त्यैव स्रष्टव्याः, तांश्च
सृष्ट्वा लब्धस्वरूपान् सा पश्चात्पश्यति, एतदेव हि युक्तम्² । तत्र सा
सत्या सती असत्यानि रूपाणि सृजतीत्येतत् तु असंभवादाश्चर्यं सत्कार्य-
वादोपपत्तेः³ कारणस्य कार्यव्यतिरेकेणासत्यताप्राप्तेः, असत्यसर्गोऽप्य-
समञ्जसकारित्वेन मालिन्यप्रसङ्गात् ॥ २४ ॥
न च क्रीडार्था वान्यथा वा सृष्टिरित्याह--
ज्ञातान्सृजत्यसौ तान्वा नेति ज्ञातेष्वदर्शनम् ॥ २५ ॥
अज्ञातेषु न सृष्टिः स्यादिष्टं क्रीडादिकं न च ।
सृष्टिश्च ज्ञातपूर्वाणामुताज्ञातानाम् । तत्र⁴ सृष्टेः पूर्वमलब्ध-
१ पश्चात्-सृष्टिसमनन्तरम् । २ किमित्यनेन संबन्धः । ३ असतः
कारणत्वे सर्वस्मात्सर्वोत्पत्तिप्रसङ्गः । ४ पक्षद्वयमध्ये ।