सामग्री पर जाएँ
सर्वकोश
शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)

शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)

Shivadrishti of Somanandanatha with Utpaladeva Vritti

सोमानन्दनाथ (वृत्ति: उत्पलदेव) द्वारा

DevanagariHindipublished188 पृष्ठ

पृष्ठ 146, कुल 188 में से

संदर्भ में पढ़ें
पृष्ठ 146

आ०-४ ] उत्पलदेवकृतवृत्त्योपेता १२६
कार्यात्मकत्वात्कार्यस्य । तदपि न, यतः सन्नप्यसौ जन्यो घटादिरर्थोऽ-
संवेद्योऽसंवेद्यत्वाच्च संबन्धिनोऽप्रख्यत्वेन संबन्धागमनं व्यञ्जकत्वं च
कुम्भकारादेर्घटं प्रति नास्ति यतः सर्वथा प्रतीत्यगोचरे वस्तुनि व्यञ्जको
न भवति । सिद्ध एवार्थे व्यञ्जको मतो यथा घटादौ दीपः । ततो व्यञ्जक-
स्यापि अभावतः कथं संबन्धः । एवं हि कारणं कार्यात्मना सत्तदा
भवेत् यद्यव्यतिरेकस्तयोः १ स्यात् । स च प्रत्यक्षविरुद्धः । तस्मादविरुद्ध-
सर्वभावैकभावः स्वयं भव एव परमेश्वरस्तथास्थानस्वभावेन,
नावरेण हेतुना कारणेन भावाभावैः संसारवर्तिभिर्भावी भवत्यभीक्ष्णं
तत्स्वभावत्वात् । अथवा २ नित्यं भावसंबन्धीति शिवकारणतया
सत्कार्यवादः ॥ ५० ॥
इतोऽपि ३ विद्धि सत्कार्यं मृत्पिण्डात्किं घटः पृथक् ॥ ५१ ॥
अपृथग्वा पृथक्त्वे तु पटादेः करणं न किम् ।
अनुपादानतैव स्यादपृथक्त्वे स एव सः ॥ ५२ ॥
इतोऽपि शिवात्मतया अर्थानां सत्कार्यवादोपपत्तिं जानीहि यतो
मृत्पिण्डघटयोः सदासत्कार्यवादेऽपि कार्यकारणतोपपत्तिः । मृत्पिण्डाद्धि
घटस्य पृथक्त्वे तथा च असत्त्वे पटशशविषाणयोरप्यसत्त्वाविशेषात्करणं
स्यात् । न चास्ति तत्, असत्यर्थे पदबन्धस्यान्यापरिहारेण कार्यत्वेन
स्वीकरणस्य कर्तुमशक्यत्वात्, तस्य मृत्पिण्डादेरनुपादानतैव स्यात् प्रकृति
रूपता नैव स्यादित्यर्थः । अपृथक्त्वे मृत्पिण्ड एव स घटः, न तु अपूर्वः ।
ततः प्रागपि पिण्डो घटः स्यात् ॥
नामसंस्थानभेदश्चेद्धस्ते मुष्ट्याद्यभेदिता ।
स्थितमेव हि सत्कार्यमत एवाविनाशिता ॥ ५३ ॥
शिवस्य भावनाशेऽपि मौलिनाशेऽपि हेमवत् ।
अथ मृत्पिण्डघटयोर्नामसंनिवेशभेदात् भेद एव, तत्कथं सत्कार्य-
मिति । तन्न, नामसंस्थानमात्र एवात्र भेदः, न तु मृद्रूपतायां यथा हस्ते
१ नहि कुम्भकारघटयोः परस्परमव्यतिरेको येन कुम्भकारमृत्पिण्डयोः
संबन्धः सिद्ध्येत् । २ भावीत्यस्यार्थान्तरमाह अथवेति । नित्ययोगे मत्वर्थीय
इनिप्रत्ययः । ३ इत्थं कारणभावेन सत्कार्यवादं समर्थेदानीं कार्यभावे-
नापि सत्कार्यवादं समर्थयतीतोऽपीत्यादिना ।
६