सामग्री पर जाएँ
सर्वकोश
शिव संहिता (भगवान् शिव प्रणीत - हठयोग एवं राजयोग सटीक)

शिव संहिता (भगवान् शिव प्रणीत - हठयोग एवं राजयोग सटीक)

Shiva Samhita with Hindi Commentary

भगवान् शिव / पं. मिहिरचन्द्र द्वारा

DevanagariSanskritpublished216 पृष्ठ

पृष्ठ 211, कुल 216 में से

संदर्भ में पढ़ें
पृष्ठ 211

उमामहेश्वरमाहात्म्यम् । (२०७)

थवा सूर्ये वह्नौ वा चंद्रमंडले ॥१७॥ कैला
सादिगिरौ वापि चिंतयेद्योगमाश्रितः ॥
एवं चिंतयतस्तस्य योगिनो मानसं स्थि-
रम्॥१८॥ यदा जातं तदा सर्वप्रपंचरहितं
शिवम् ॥ प्रपंचकरणं देवमवाङ्मनसगो-
चरम् ॥१९॥ प्रयाति स्वात्मना योगी पु-
रुषं दिव्यमद्भुतम्॥ तमसः स्वात्ममोहस्य
परं तेन विवर्जितम्॥२०॥ साक्षिणं सर्वबु-
द्धीनां बुद्ध्यादिपरिवर्जितम् ॥ उमासहा-
यो भगवान्सगुणः परिकीर्तितः॥२१॥ नि-
र्गुणश्च स एवायं न यतोऽन्योस्ति कश्चन ॥
ब्रह्मा विष्णुस्तथा रुद्रः शक्रो देवसमन्वि
तः ॥ २२॥ अग्निः सूर्यस्तथा चंद्रः कालः
सृष्ट्यादिकारणम्॥ एकादशेंद्रियाण्यंतः
करणं च चतुर्विधम्॥२३॥ प्राणाः पंचम-
हाभूतपंचकेन समन्विताः ॥ दिशश्च प्र-
दिशस्तद्वदुपारिष्टादधोपि च ॥२४ ॥ स्वे-
दजादीनि भूतानि ब्रह्मांडं च विराड्वपुः॥