शिल्परत्नम् (श्रीकुमार - प्राचीन भारतीय चित्रकला, धातुकर्म, यन्त्र एवं स्थापत्य सटीक)
Shilparatnam of Shrikumara with Commentary
श्रीकुमार (सम्पादक: टी. गणपति शास्त्री) द्वारा
पृष्ठ 268, कुल 280 में से
संदर्भ में पढ़ेंशस्त्रलक्षणम् ] पञ्चत्रिंशोऽध्यायः । २१९
मात्वा मूलाग्रमायामं दशभिर्गुणयेत् पुनः ।
आयमर्कहताच्छेषं नवभिरथ वर्धयेत् ॥ २१ ॥
चतुर्दशाहतं शेषं व्ययं शस्त्रस्य निश्चयः ।
त्रिघ्ने अष्टहताच्छेषं योनिः स्यान्नवभिः पुनः ॥ २२ ॥
हत्वा त्रिपञ्चकैर्हृत्वा शेषेण तिथिमानयेत् ।
कृत्वा दशगुणं सप्तविंशत्या तारमानयेत् ॥ २३ ॥
हत्वा चतुर्भिर्वारः स्याच्छैलाहरणशेषतः ।
आयाधिक्यं व्ययाद् भद्रमथ योन्यष्टकस्य तु ॥ २४ ॥
ध्वजमार्जारपञ्चास्यश्ववृषाखुशशाः क्रमात् ।
योनयस्तेषु शुभदास्तार्क्ष्यसिंहश्वगोवृषाः ॥ २५ ॥
अथवा ध्वजधूमादीन् कल्पयेद् यदि कथ्यते ।
अर्थलाभश्च कलहो विजयं रोगमेव च ॥ २६ ॥
लाभं दुःखं शुभं तद्वन्निष्फलं च क्रमात् फलम् ।
करणे सिंहशार्दूलौ पशुवृष्टिगजाः शुभाः ॥ २७ ॥
स्थिरविष्टिकराः शस्त्रे करणेषु विनिन्दिताः ।
स्वाङ्गक्षतिस्तु गण्डान्ते शुभवारः प्रशस्यते ॥ २८ ॥
स्वस्य स्ववंशजं शस्त्रं मुख्यमाहुर्मनीषिणः ।
व्ययायौ योनिनक्षत्रतिथिवारान् समृद्ध्य तु ॥ २९ ॥
यज्जातं तत्तदायुस्तत् पञ्चधा विभजेत् पुनः ।
बाल्यकौमारकादीनि शेषादानीय तद् वदेत् ॥ ३० ॥
१. ‘सिंहमा’ क. पाठः. २. ‘खरगजाः क’, ३. ‘गजाः’ ख.
पाठः. ४. ‘ल्प्यते य’ ख. पाठः.