सामग्री पर जाएँ
सर्वकोश
शिल्परत्नम् (श्रीकुमार - प्राचीन भारतीय चित्रकला, धातुकर्म, यन्त्र एवं स्थापत्य सटीक)

शिल्परत्नम् (श्रीकुमार - प्राचीन भारतीय चित्रकला, धातुकर्म, यन्त्र एवं स्थापत्य सटीक)

Shilparatnam of Shrikumara with Commentary

श्रीकुमार (सम्पादक: टी. गणपति शास्त्री) द्वारा

DevanagariSanskritpublished280 पृष्ठ

पृष्ठ 253, कुल 280 में से

संदर्भ में पढ़ें
पृष्ठ 253

१३४ शिल्परत्ने [उत्तरभागः
लोहजं दण्डकं मध्यं कृतं दार्वादिभिः पुनः ।
मूलाग्रवाहसुभगं शृङ्खलापट्टिकान्वितम् ॥ ५९ ॥
लोहडोलमिदं तत्तु यानं मानुषसम्मितम् ।
अश्वैश्चतुर्भिर्द्वाभ्यां वा युक्तश्च युगवान्वितैः ॥ ६० ॥
विस्तारादातताधिक्यः सर्वचित्रसमन्वितः ।
मुखे पृष्ठे यथान्यायं मकराननलक्षितः ॥ ६१ ॥
नानावर्णपताकाभिर्राजितः सुदृढा(त्म ? क्ष)कः ।
स्यन्दनोऽयं नृपाणां वै निर्मितो वाहनोत्तमः ॥ ६२ ॥
डोलादण्डायतं तत्र कारयेद् योनिभेदतः ।
अष्टाङ्गुलोनषड्ढस्तं रविहस्तौ प्रशेरते (?) ॥ ६३ ॥
सप्तहस्तं तथाप्यष्टमात्रोनदशहस्तकम् ।
पञ्चहस्तं तथाप्यष्टमात्रान्वितदिगक्षरम् ॥ ६४ ॥
एवं षढोत्तमं मध्यं सप्तधा कीर्तयाम्यहम् ।
साष्टमात्राष्टहस्तं चाप्येकादशकरं तथा ॥ ६५ ॥
साष्टाङ्गुलं (च) षड्ढस्तं नवहस्तं तथैव च ।
साष्टार्काङ्गुलहस्तं च पर्ववद्यो ++++ ॥ ६६ ॥
अष्टाङ्गुलोनाष्टकरं त्रयोदशकरं पुनः ।
अथ नौः —
लाकुचैः फलकैः क्लृप्ता चोपवल्कलवेष्टिता ॥ ६७ ॥
आयता सुदृढा नीरे सा नौर्याने प्रशस्यते ।
वेणुकम्रौभि(?)रन्योन्यं गुम्फितो वर्तलाकृतिः ॥ ६८ ॥
१. 'र्मा' ख. पाठः.