सामग्री पर जाएँ
सर्वकोश
शिल्परत्नम् (श्रीकुमार - प्राचीन भारतीय चित्रकला, धातुकर्म, यन्त्र एवं स्थापत्य सटीक)

शिल्परत्नम् (श्रीकुमार - प्राचीन भारतीय चित्रकला, धातुकर्म, यन्त्र एवं स्थापत्य सटीक)

Shilparatnam of Shrikumara with Commentary

श्रीकुमार (सम्पादक: टी. गणपति शास्त्री) द्वारा

DevanagariSanskritpublished280 पृष्ठ

पृष्ठ 252, कुल 280 में से

संदर्भ में पढ़ें
पृष्ठ 252

वाहनम् ] त्रयस्त्रिंशोऽध्यायः । २३३
एकद्रुमेण धन्यं वृक्षद्वयनिर्मितं च धन्यतरम् ।
त्रिभि)रात्मजवृद्धिकरं चतुर्भिरर्थो यथाश्वाग्र्यम् ॥ ४८ ॥
पञ्चवनस्पतिरचिते पञ्चत्वं याति तत्र यः शेते ।
षट्‌सप्ताष्टतरूणां काष्ठैर्घटिते कुलविनाशः ॥ ४९ ॥
भूमयो ब्राह्मणादीनां यथोक्ता वास्तुकर्मणि ।
ता एव तेषां शस्यन्ते देवतायतनेष्वपि ॥ ५० ॥
अथ वाहनम् —
डोला सुखासनं तद्वद् रथो नौः प्लवकस्तथा ।
वाहनानि पञ्च ज्ञेयानि नराणां कृत्रिमाणि वै ॥ ५१ ॥
सुवक्रया वेणुजया हेमरत्ननिबद्धया ।
स्वर्णशृङ्खलया पट्टन्यस्तशय्योपधानया ॥ ५२ ॥
दिव्यपट्टप्रच्छदया वाहकद्वयवाह्यया ।
एकदण्डिकया नद्धं डोलायानं तदुच्यते ॥ ५३ ॥
दन्तिदन्तकृतं हेमरत्नजालविभूषितम् ।
शार्दूलचर्मसंनद्धं दण्डकद्वयधारितम् ॥ ५४ ॥
चतुर्भिर्वाहकैर्वाह्यं हंसशय्यासमन्वितम् ।
पृष्ठाधारेण संयुक्तं सुखासनमिति स्मृतम् ॥ ५५ ॥
वक्ष्यमाणक्रमं चोक्तलक्षणाकारलक्षितम् ।
निर्मितं दन्तिदन्ताद्यैर्नानावर्णविचित्रितम् ॥ ५६ ॥
हेमरत्नसमाकीर्णं मृदुशय्यास्तृतान्वितम् ।
डोलोक्तमार्गसंबद्धदण्डया च समन्वितम् ॥ ५७ ॥
तद्दण्डमध्यसंलम्बहस्ताधारसमन्वितम् ।
यानं यत्तु तदेव स्याडोलाभेदमिति स्मृतम् ॥ ५८ ॥
FF