शिल्परत्नम् (श्रीकुमार - प्राचीन भारतीय चित्रकला, धातुकर्म, यन्त्र एवं स्थापत्य सटीक)
Shilparatnam of Shrikumara with Commentary
श्रीकुमार (सम्पादक: टी. गणपति शास्त्री) द्वारा
पृष्ठ 153, कुल 280 में से
संदर्भ में पढ़ें१३४ शिल्परत्नम् [उत्तरभागः
चक्र शङ्खमिषुं धनुश्च दधतीं कोदण्डबाणांशयो-
मुद्रे वाभयकामदे सकटिबन्धाभीष्टदां वानयोः ॥ २ ॥
लिपिः —
देवीं कुन्देन्दुगौरा | ाममृतकरकलास्मेरकोटीरबन्धां
मुद्राबोधाक्षमालावरकलितकरां पुस्तकाक्रान्तहस्ताम् ।
शुभ्राकल्पां त्रिनेत्रां त्रिभुवननमितामक्षराधीनमूर्तिं
वन्दे वाग्देवतां तां जगदुदयकरीं मातृकां विश्वयोनिम्॥ ३ ॥
अथ भुवनेश्वरी —
उद्यद्भास्वत्समाभां (विजितनवजपामिन्दुखण्डावनद्धां
ज्योतिर्मालां त्रिनेत्रां विविधमणिलसत्कुण्डलां पद्मसंस्थाम् ।
हारग्रैवेयकाञ्चीमणिगणवलयैः संयुतामम्बराढ्या-
माद्यां पाशाङ्कुशाभ्यामभयवरकरां भावयेद् भौवनेशीम् )
[॥ ४ ॥
अथवा —
मुक्ताविद्युत्पयोदस्फटिकनवजपाभास्वरैः पञ्चवक्त्रैः
शीतांशुल्लासिचूडैस्त्रिनयनलसितैर्भासुरामच्छवर्णाम् ।
चक्रं शङ्खं कपालं गुणपरशुसुधाकुम्भवेदाक्षमाला-
विद्यापद्मान् वहन्तीं नमत मुनिनतां भारतीं पद्म-
[संस्थाम् ॥ ५ ॥
अपिच —
मृगपोतकपुस्तकाक्षमाला-
परशून् + दधतीं सिताम्बुजस्थाम् ।
तुहिनद्युतिशेखरां त्रिनेत्रां
सितभूषां सुसितां नमामि वाणीम् ॥ ६ ॥
१ 'निम् । शशांता' घ पाठः