शतपथ ब्राह्मण (शुक्ल यजुर्वेद - प्रथम भाग)
Shatapatha Brahmana Part 1 - Shukla Yajurveda
महर्षि याज्ञवल्क्य / सायणभाष्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान · 1950 (उद्गम)
पृष्ठ 42, कुल 699 में से
संदर्भ में पढ़ें२४ शतपथ ब्राह्मण
न॒ वान॒ङ्गो तय॑द्दि॒श्या आ॑शा॒स्तस्मा॑दाह॒ विश्वा॑भ्यस्त्वा॒शाभ्य॒ उप॑दधामीति तूष्णी॑मे॒-
वेत॒राणि कपालान्युप॑दधाति चि॒त स्थो॒र्ध्वचि॑त॒ इति॑ वा ॥ १२॥ अथा॒ङ्गिरि॒रभ्यू॑ह-
ति । भृगूणामङ्गिर॑सां तप॑सा तप्यध्व॒मित्ये॒तद्वै तेजि॑ष्ठं तेजो॒ यद्भूगवोऽङ्गिर॑स॒स्ते उत्त॒प्ता-
न्यस॒न्निति॒ तस्मा॑देनन॒मभ्यू॑हति ॥ १३॥ अथ यो दृषदुपले उप॑दधाति । स कृ॒ष्णाजि॒-
नमा॒दत्ते॒ शर्मा॑सीति॒ तदव॑धूनोत्यव॑धूत॒ रक्षो॒ऽव॑धूता अरा॑तय॒ इति॒ सो॑ऽसावेव
बन्धु॒स्तत्प्रतीचीनग्रीवमुप॑स्तृणात्यादि॒त्यास्त्वग॑सि॒ प्रति॒ त्वादि॑तिर्वेत्त्विति॒ सो॑ऽसावेव
बन्धुः ॥ १४॥ अथ दृषद॒मुप॑दधाति । धिष॑णासि पर्वती॒ प्रति॑ त्वादि॒त्यास्त्वग्वे॑त्त्विति
धिष॑णा॒ हि पर्व॑ती॒ हि प्रति॑ त्वादि॒त्यास्त्वग्वे॑त्त्विति तत्संज्ञा॒मेवैतत्कृ॒ष्णाजि॒नाय॑ च
वदति॒ नेद्यो॑ऽन्य॑ᳵ हिंस॒ाव॒ इतीय॑मे॒वैषा पृ॑थि॒वी रू॑पेण ॥ १५॥ अथ शम्यामु-
दीचीनाग्रामुप॑दधाति । दि॒वः स्क॑म्भनीरसीत्यन्तरिक्ष॑मेव रू॒पेणान्तरिक्षेण॒ हीमे द्या-
वा॑पृथि॒वी विष्ट॑ब्धे॒ तस्मा॑दाह दिव स्कम्भनी॒रसी॑ति ॥ १६॥ अथोपलामुप॑दधाति ।
धिष॑णासि पार्वते॒यी प्रति॑ त्वा पर्वती वेत्त्विति॒ कनीयसी॒ ह्येषा दुहि॒तेव॑ भवति
तस्मा॑दाह पार्वते॒यीति॒ प्रति॑ त्वा पर्व॑ती वेत्त्विति॒ प्रति॒ हि स्वः संज्ञा॑नी॒ते तत्संज्ञा-
मे॒वैतदृषदुप॑लाभ्यां वदति॒ नेद्यो॑ऽन्य॑ᳵ हिंस॒ाता॒ऽइति॒ द्यौरे॒वैषा रू॑पेण॒ पुन्
ऽए॒व दृषदुप॑ले॒ स्त्रित्वे॒व शम्या॒ तस्मा॒च्छम्या समा॑हन्ति स्त्रिया हि वद॑ति ॥ १७॥
अथ ह॒विरधिव॑पति । धा॒न्यम॑सि धिनु॒हि दे॒वानिति धा॒न्यꣳ हि दे॒वान्धिनो॒त्ये॒-
तद्धि ह॒विर्गृह्णा॑ति ॥ १८॥ अथ पिनष्टि । प्रा॒णाय॑ त्वोदा॒नाय॑ त्वा व्या॒नाय॑ त्वा दी॒र्घा-
मनु॒ प्रसिति॒मायु॑षे धानिति॒ प्रोह॑ति दे॒वो वः॑ सवि॒ता हिर॑ण्यपाणिः॒ प्रति॑गृह्णात्व-
च्छिद्रेण पाणिना चक्षु॑षे त्वेति ॥ १९॥ ॥ शतम् १०० ॥ ॥ तद्य॒देवं॑ पिन॒ष्टि । जी॒वं
वै दे॒वानाꣳ ह॒विरमृ॑तममृताना॒मथैतदुलूखलमुसलाभ्यां दृषदुपलाभ्याꣳ ह॒विर्य॒ज्ञं
घ्नन्ति ॥ २०॥ स यदाह । प्रा॒णाय॑ त्वोदानाय॑ त्वेति तत्प्राणोदानौ दधाति व्या॒नाय॑
त्वेति तद्व्यानं॑ दधाति दी॒र्घामनु॑ प्रसिति॒मायु॑षे धानिति॒ तदायु॑र्दधाति दे॒वो वः॑ स-