सामग्री पर जाएँ
सर्वकोश
सौन्दरनन्द महाकाव्य (महाकवि अश्वघोष - विमला संस्कृत एवं हिन्दी व्याख्या सहित सम्पूर्ण १८ सर्ग)

सौन्दरनन्द महाकाव्य (महाकवि अश्वघोष - विमला संस्कृत एवं हिन्दी व्याख्या सहित सम्पूर्ण १८ सर्ग)

Saundarananda Mahakavya of Ashvaghosha

महाकवि अश्वघोष (व्याख्याकार: आचार्य जगदीशचन्द्र मिश्र) द्वारा

DevanagariHindipublished496 पृष्ठ

पृष्ठ 305, कुल 496 में से

संदर्भ में पढ़ें
पृष्ठ 305

त्रयोदशः सर्गः
शीलेन्द्रियजयः
इन्द्रियनिग्रह आत्मनियन्त्रण शीलवन्त ही करते हैं ।
शान्तचित्त निर्द्वन्द्व विवेकी प्रज्ञारस पी जाते हैं ॥
अथ संराधितो नन्दः श्रद्धां प्रति महर्षिणा ।
परिषिक्तोऽमृतेनेव युयुजे परया मुदा ॥ १ ॥
अन्वयः—अथ महर्षिणा श्रद्धां प्रति संराधितः नन्दम् अमृतेन परिषिक्तः इव
परया मुदा युयुजे ॥ १ ॥
व्याख्या—अथ = अनन्तरम्, महर्षिणा = मुनिना, गौतमेन, श्रद्धां प्रति = आस्था-
म्प्रति, संराधितः = प्रचोदितः, नन्दम् = बुद्धानुजम्, अमृतेन = पीयूषेण, परिषिक्तः =
कृतस्नानः, इव = यथा, परया = प्रकृष्टेन, मुदा = हर्षेण, युयुजे = अयुनक्त । सम्भा-
वनार्थेऽत्रोत्प्रेक्षाऽलङ्कारः ॥ १ ॥
हिन्दी—महर्षि ने उसकी आत्मनिष्ठा को सबल एवं स्थिर बनाने के लिए उसे
प्रोत्साहित किया, तब उसे लगा जैसे किसी ने उसे अमृत से स्नान करा दिया हो,
उसे सुनकर बड़ा आनन्द मिला ॥ १ ॥
कृतार्थमिव तं मेने सम्बुद्धः श्रद्धया तया ।
मेने प्राप्तमिव श्रेयः स च बुद्धेन संस्कृतः ॥ २ ॥
अन्वयः—सम्बुद्धः तया श्रद्धया तं कृतार्थम् इव मेने बुद्धेन च संस्कृतः श्रेयः
प्राप्तम् इव मेने ॥ २ ॥
व्याख्या—सम्बुद्धः = प्रज्ञावान् तथागतः, तया=पूर्ववर्णितया, श्रद्धया =आस्थया,
तम् = स्वानुजम्, कृतार्थम् = पूर्णकामम्, इव = यथा, मेने = अमन्यत, बुद्धेन = मुनिना,
च = पुनः, संस्कृतः = संस्कारसम्पन्नः, सः = नन्दः, श्रेयः = मङ्गलम्, प्राप्तम् = लब्धम्,
इव = यथा, मेने = अमन्यत । सम्भावनायामुत्प्रेक्षाऽलङ्कारोऽत्र ॥ २ ॥
हिन्दी—बुद्ध ने नन्द की निष्ठा के कारण उसे सफल मनोरथ समझा और बुद्ध
से दीक्षित होकर नन्द ने अपना कल्याण उपस्थित-सा समझा ॥ २ ॥
श्लक्ष्णेन वचसा कांश्चित् कांश्चित्परुषया गिरा ।
कांश्चिदाभ्यामुपायाभ्यां स विनिन्ये विनायकः ॥ ३ ॥
अन्वयः—सः विनायकः कांश्चित् श्लक्ष्णेन वचसा कांश्चित् परुषया गिरा कांश्चित्
आभ्याम् उपायाभ्यां विनिन्ये ॥ ३ ॥