सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
पृष्ठ 72, कुल 837 में से
संदर्भ में पढ़ेंद्वितीयः परिच्छेदः १३
विवेकदं परं शास्त्रं ब्रह्मोपनिषदं महत् ।
दिव्यमन्त्रक्रमोपेतं मोक्षैकफललक्षणम् ॥ ५ ॥
तादृक् परिस्रुतं तस्माज्जगदुद्धरणाय च ।
तदाद्यमुपदेक्ष्यामि यद्भेदैर्बहुभिः स्थितम् ॥ ६ ॥
सिद्धिमोक्षप्रदं शुद्धं सरहस्यमसंकुलम् ।
एकायनश्रुतेः सारभूतं सात्वततन्त्रमुपदेक्ष्यामीत्याह—ब्राह्मणानामिति सार्ध-
त्रयेण । सद्ब्रह्मवासुदेवाख्याजिनां = सच्छब्दब्रह्मशब्दवासुदेवशब्दवाच्यवस्तुमात्रार्चन-
पराणामित्यर्थः । ब्राह्मणानां लक्ष्यभूतं = विषयभूतम् । देवतान्तरयाजिनां ब्राह्मणानाम-
दर्शनीयमिति भावः । अत एव अधिकारिणां शुद्धयाजिनां हृदिस्थम् अतिगोप्यमि-
त्यर्थः । विवेकदं = हेयोपादेयविवेकप्रदं, परं = श्रेष्ठं, ब्रह्मोपनिषदं = तथाविध-
संज्ञकम्, उप समीपे निषीदतीति उपनिषदिति । सर्वोपनिषदामपि भगवत्समीपवर्तित्वे-
ऽप्यत्र ब्रह्मोपनिषदित्यनेन ब्रह्मणोऽव्यवहितसमीपवर्तित्वं सूच्यते । यद्वा ब्रह्म-
मात्रप्रतिपादिका उपनिषदि(ति वा त्य)र्थः । दिव्यमन्त्रक्रियोपेतम्—
दिव्यैर्बलादिकैर्मन्त्रैः साक्षात् तत्प्रतिपादकैः ।
अलङ्कृतमसंदिग्धमविद्यातिमिरापहम् ॥ (ई०सं० १।२१)
इत्याद्युक्तप्रकारेण बलादिमन्त्रसहितम्, मोक्षमात्रफलप्रदं यच्छास्त्रमेकायनश्रुति-
रूपं शास्त्रम्, तस्मान्मूलवेदाद् जगदुद्धरणाय परिस्रुतम् ।
परित्यज्य परं धर्मं मिश्रधर्ममुपेयुषाम् ।
भूयस्तत्पदकांक्षाणां श्रद्धाभक्ती उपेयुषाम् ॥
अनुग्रहार्थं वर्णानां योग्यतापादनाय च ।
तथा जनानां सर्वेषामभीष्टफलसिद्धये ॥
मूलवेदानुसारेण छन्दसाऽऽनुष्टुभेन च ।
सात्वतं पौष्करं चैव जयाख्येत्येवमादिकम् ॥
दिव्यं सच्छास्त्रजालं तदुक्त्वा सङ्कर्षणादिभिः ।
प्रवर्तयामास भुवि सर्वलोकहितैषिभिः ॥
—ई०सं० १।४८-५१
इत्युक्तत्वात् । क्रमं तादृग् = मूलवेदसदृशम्, सिद्धिमोक्षप्रदं = भोगापवर्गदम्,
काम्यफलप्रदत्वेऽपि भगवन्मात्रविषयत्वात् । परिशुद्धं सरहस्यं = नानाविधरहस्यमन्त्र-
सहितम्, असंकुलं = देवतान्तरैरमिश्रं यदिद्व्यशास्त्रं बहुभिर्भेदैः स्थितं = नानासंहिता-
भेदभिन्नम्, तदाद्यं तस्मिन् दिव्यशास्त्रे आद्यं प्रथमं सात्वततन्त्रमित्यर्थः । उपदेक्ष्यामि
भवत इति शेषः ॥ ४-७ ॥
वह उपदेश सच्छब्द, ब्रह्मशब्द एवं वासुदेव शब्द के अर्चन करने वाले
ब्राह्मणों का लक्ष्यभूत है । सृष्टि के प्रारम्भ से ही शुद्ध यज्ञ करने वाले अधिकारियों
के हृदय में रहने के कारण यह अति गोप्य है ॥ ४ ॥