सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
पृष्ठ 686, कुल 837 में से
संदर्भ में पढ़ेंपञ्चविंशः परिच्छेदः ६२७
संसेच्य बिम्बं तदनु स्नापयेत् तन्मृदम्भसा ।
पाठयेत् तत्र कूष्माण्डान् बलमन्त्राननन्तरम् ॥ ९७ ॥
अथ पूर्वं स्थापितस्थूलपराभिधानस्नपनकलशेषु पाद्यादिकतिपयकलशाभिषे-
कालङ्करणार्चनपूर्वकं नयनोन्मीलनार्थं शयने बिम्बस्य सन्निवेशनमाह—अथेति चतुर्भिः ।
माङ्गल्यकलशाम्भसा पाद्यार्घ्याचमनाख्यकलशत्रयोदकेनेत्यर्थः । चमसाम्बुना । चमसो
नाम तैलनिर्हरणार्थकद्रव्यविशेषः पूर्वमाराधनप्रकरणेऽप्युक्तः—
रजनीचूर्णसंमिश्रमीषत्पङ्कभावितम् ॥
देयमुद्वर्तनार्थं तु चमसं तदनन्तरम् । (६।३३-३४) इति ।
चमषी सुगन्धद्रव्यविशेष इति पारमेश्वरव्याख्याने ॥ ९६-१०० ॥
फिर माङ्गल्य कलश (पाद्यार्घ्याचमनीय कलश) के जल से अस्त्र मन्त्र पढ़ते
हुए बिम्ब का सेचन करे । पश्चात् मिट्टी के जल से स्नान करावे । अनन्तर
कूष्माण्ड मन्त्र, फिर बल मन्त्र का पाठ करावे ॥ ९६-९७ ॥
ततो गोमयकुम्भेन इह गावः प्रपाठयेत् ।
भूतिस्त्वमिति मन्त्रेण पठ्यमानेन भूतिना ॥ ९८ ॥
फिर गोमय युक्त कलश के जल से गोमय द्वारा स्नान करावे और 'इह
गावः' इत्यादि मन्त्र का पाठ करावे । फिर 'भूतिस्त्वम्' इत्यादि मन्त्र से भस्म
कलश के जल से स्नान करावे ॥ ९८ ॥
पञ्चगव्येन तदनु पाठयेच्चतुरस्ततः ।
पूर्ववच्च ततोऽभ्यर्च्य विधिवच्चमसाम्बुना ॥ ९९ ॥
क्षालयित्वाऽर्चयित्वा च निवेश्य शयनान्तरे ।
नेत्राभिमन्त्रितां कृत्वा शलाकां तैजसीं स्वयम् ॥ १०० ॥
फिर पञ्चगव्य से स्नान कराकर 'चतुरस्तत' इत्यादि मन्त्र का पाठ करावे ।
तदनन्तर चमस के जल से (तैलादि द्रव्यों को निकालने वाला द्रव्य विशेष) पूर्ववत्
अर्चना करे । फिर प्रक्षालन कर अर्चना के अनन्तर बिम्ब को दूसरे शयन पर
स्थापित करे ॥ ९९-१०० ॥
नयनोन्मीलनविधानम्
संस्मरन् परमं ज्योतिरीषन्नेत्रे तु चोल्लिखेत् ।
तन्मन्त्रितेन शस्त्रेण शिल्पी स्नातोऽवलोकितः ॥ १०१ ॥
यथावत् प्रकटीकुर्याद् विधिदृष्टेन कर्मणा ।
वारुणं पाठयेत् साम सह चान्द्रेण सामगान् ॥ १०२ ॥
ततः पात्रद्वये कृत्वा तैजसे मधुसर्पिषी ।