सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
पृष्ठ 670, कुल 837 में से
संदर्भ में पढ़ेंपञ्चविंशः परिच्छेदः ६११
सोलह हाथ पर्यन्त मण्डपों की ऊँचाई क्रमशः आठ, सात, पाँच और चार हाथ
कम करना चाहिये ॥ १५-१६ ॥
एवं स्नानगृहाणां तु विस्तारश्चोन्नतैः सह ।
किन्तु वै वालुकापीठैर्मध्यतश्चोपशोभिताः ॥ १७ ॥
बालुकापीठमानकथनम्
द्विचतुर्भिर्द्विसप्तांशैर्विस्तृताः प्राग्वदुन्नताः ।
एवं यागमण्टपोक्तं लक्षणं स्नानगेहेऽप्यतिदिशति—एवमिति । उन्नतैः सह
औन्नत्यैः सह इत्यर्थः । भावप्रधानो निर्देशः । तत्र विशेषमाह—किन्त्विति । वालुका-
पीठैर्मध्यतो वालुकापूरितवेदिकामध्यत उपशोभिताः, स्नानगृहा इति शेषः ।
बालुकापीठमानमाह—द्विचतुर्भिरिति । द्विसप्तांशैश्चतुर्दशभागैर्द्विचतुर्भिरष्टभिरं-
शैश्च विस्तृताः प्राग्वदुन्नताश्च, बालुकापीठा इति शेषः । यागगेहे परितः कुण्ड-
निर्माणार्थमुभयतोऽप्यष्टभिरष्टभिरंशैर्वीथीकल्पनमुक्तम् । अत्र कुण्डाभावाच्चतुर्भि-
श्चतुर्भिरंशैरेव वीथीकल्पनम्, द्वाविंशत्यंशैर्वालुकापीठकल्पनमिति बोध्यम् ।
इसी प्रकार स्नानगृह का विस्तार भी उसकी ऊँचाई के साथ विस्तृत करना
चाहिये । किन्तु स्नानगृह की वेदी को मध्य में बालुका से परिपूर्ण कर शोभायुक्त
बनानी चाहिये । यागगृह में दोनों ओर से कुण्ड निर्माण के लिये आठ-आठ और
चौदह अंशों से पहले कही गई ऊँचाई के अनुसार विस्तृत वीथी का निर्माण करना
चाहिये ॥ १७-१८ ॥
स्नानशालादिनिर्माणकथनम्
स्नानीयादग्रगेहाद् वा दिक्त्रयेऽभिमते शुभम् ॥ १८ ॥
स्नानशालादिनिर्माणस्थाने नियममाह—स्नानीया इति । स्नानीयाः, गृहा इति
शेषः । अग्रगेहाद् = अग्रभागस्थितयागगेहं विहाय, दिक्त्रये दक्षिणादिदिक्षु अभिमते
शुभे मनोहरे स्थाने कार्या इत्यर्थः ॥ १८ ॥
अब स्नानशालादि निर्माण स्थान के लिये नियम कहते हैं—अग्रभाग में
स्थित यागगृह को छोड़कर शेष दक्षिण आदि तीन दिशायें कल्याणकारी कही गयीं
हैं ॥ १८ ॥
नयनोन्मीलनगेहलक्षणकथनम्
अर्धमानसमं मुख्यात् सुपीठशयनान्वितम् ।
दृग्दानभवनं कुर्यान्माङ्गल्यकलशैः सह ॥ १९ ॥
नयनोन्मीलनगेहलक्षणमाह—अर्धेति । मुख्याद् यागगेहाद् अर्धमानसमं तदर्ध-
विस्तारायामं माङ्गल्यकलशैः सह वक्ष्यमाणकलशैः सह सुपीठशयनान्वितं दृग्दान-