सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
पृष्ठ 644, कुल 837 में से
संदर्भ में पढ़ेंचतुर्विंशः परिच्छेदः ५८५
सात्वतोक्तरीत्या "पिधाननवके" (१०।२८) इत्यादिभिर्नवशक्तित्न्यासपक्षोऽप्युक्तः ।
पारमेश्वरव्याख्यातृभिस्तु "मध्यकुम्भस्य पिधाने मध्यतो निष्कलः शब्दविग्रहः
षडक्षरः" इत्युक्तम् । तदज्ञानमूलकम्, "षडक्षरेण मन्त्रेण निष्कलं शब्दविग्रहम्"
(१०।२५) इति वाक्यस्य पूर्ववाक्य एव योजनीयत्वात्, एवमुत्तरत्र योजिते विरोध-
बाहुल्याच्च । पारमेश्वरमूलभूतपौष्करसंहितायां द्विचत्वारिंशेऽध्याये "षडक्षरेण"
(४२।१६६) इति वाक्यान्तरं सार्धश्लोकषट्कमतिलङ्घ्यैव "शक्तिर्वा या परा
देवी" (४२।१७३) इत्यादिकमुक्तम्, तदबुद्ध्वा पारमेश्वरसंहितादर्शनमात्रेणैव सर्व-
ज्ञम्मन्यमानैर्व्याख्यातृभिरेवमुक्तम् । किञ्च, "मध्यकुम्भपिधानस्य चतुर्दिक्षु विश्वसन्धा-
रणक्षमा ज्ञानशक्तिः, तद्विद्दिक्ष्वानन्दलक्षणा क्रियाशक्तिः" इत्युक्तम् । अत्र पराशक्तिः
प्रभाशक्तिश्च ज्ञानक्रियाशक्त्योरिवात्मनोऽपि यथोक्तस्थानव्यत्ययः संभवेदिति भिया
व्याख्यातृदृष्टिगोचरतामेव न प्राप्तुः । अत्र चतुःशक्त्यर्चनं पौष्करे कण्ठरवेणोक्तम्—
पिधाननवकं दद्यात् ताम्रं वा शैलजं समम् ।
सुवृत्तं चतुरश्रं वा सुघनं द्वादशाङ्गुलम् ॥
चतुःशक्तिनिरुद्धं च (४२।१७२-१७३) इति ।
शक्तिचतुष्टयमपि तत्रैव विवृतम् "शक्तिर्वा या परा देवी" (४२।१७३)
इत्यादिभिः । प्रागादिचतुष्टये ज्ञानशक्तिः, आग्नेयादिपिधानचतुष्टये क्रियाशक्ति-
रित्यर्थोऽपि पारमेश्वरे "विदिग्व्यक्तिसमूहे तु" (१०।२७) इत्यत्र व्यक्तिपदेनैव
ज्ञायते । तदपि स्पष्टमुक्तं पौष्करे "विदिग्घटसमूहे तु" (४२।१७४) इत्यत्र । अत्र
घटशब्दस्य तत्पिधाने लक्षणा । अपि च, "पिधाननवके त्वस्मिन्" (पा०सं०
१०।२८) इत्याद्युक्तज्ञानभासा दिशक्तिन्यासस्य पक्षान्तरत्वमपि न ज्ञातम् ।
ननु तत्र यद्यऽथवेत्यादिपक्षान्तरत्वगमकशब्दो न दृश्यते, ज्ञानक्रियाशक्त्योः
प्रागादिपिधानाष्टके न्यासाङ्गीकारे "पिधाने मध्यतो न्यसेत्" (पा०सं० १०।२६)
इत्यत्र मध्यशब्दस्य वैय्यर्थ्यं च स्यादिति चेत्, ब्रूमः— पक्षान्तरत्वगमकशब्दाभावेऽ-
प्यर्थपर्यालोचनया तस्य पक्षान्तरत्वं सिद्धमेव । मध्यशब्दप्रयोजनं तु "मन्त्रराट्
कर्णिकामध्ये" (पा०सं ५।१३०) इत्यत्र यथाङ्गीक्रियते, तथैवात्रापीति बोद्धव्य-
मायुष्मता । पारमेश्वरव्याख्यातृभिरत्र "नवकुम्भवत्त्वं वृत्तायतविमानभेदविषयम् ।
"यत्र प्रासादभेदेषु" (१०।६८) इति वक्ष्यमाणत्वात्" इत्युक्तम् । तदतीव मन्दम्,
प्रासादनिर्माणार्थं खातदेशे नवकुम्भस्थापनं सर्वविमानसाधारणम्, "अनेकभेदभिन्नेषु
प्रासादेषु महामते" (पा०सं० १०।३) इत्यारभ्य लोकव्याप्त्यादीनां सर्वसाधारण्ये-
नोक्तत्वात्, अत्र पौष्करे चैवं नवकुम्भस्थापनस्य सर्वविमानसाधारणत्वेनोक्तत्वाच्च ।
पारमेश्वरव्याख्यातृभिरेतन्नवकुम्भेषु शिखाकुम्भत्वभ्रान्त्या व्याख्यानमेवं कृतमिति
मन्यामहे । अलं प्रसक्तानुप्रसक्त्या । प्रकृतमनुसरामः ॥ २८२-३५९ ॥
॥ इति श्रीमौज्यायनकुलतिलकस्य यदुगिरीश्वरचरणकमलार्चकस्य
योगानन्दभट्टाचार्यस्य तनयेन अलशिङ्गभट्टेन विरचिते
सात्वततन्त्रभाष्ये चतुर्विंशः परिच्छेदः ॥ २४ ॥
— ❦ ❧ —
सा० सं० - 41