सामग्री पर जाएँ
सर्वकोश
सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)

सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)

Satvata Samhita of Pancharatra Agama with Commentary

भगवान् सङ्कर्षण / महर्षि नारद द्वारा

DevanagariHindipublished837 पृष्ठ

पृष्ठ 578, कुल 837 में से

संदर्भ में पढ़ें
पृष्ठ 578

द्वाविंशः परिच्छेदः ५१९
सर्वदा स उपास्तव्य इहामुष्मिकसिद्धये ।
लिङ्गैरेतैः परिज्ञेयः सहजोत्यैरकृत्रिमैः ॥ ३० ॥
आचार्यैः समयी नाम शिष्यो जात्या चतुर्विधः ।
इस लोक तथा परलोक में सिद्धि प्राप्त करने के लिये मात्र परमात्मा ही
उपासना के योग्य है । इस प्रकार स्वभाव में रहने वाले अकृत्रिम लिङ्गों से आचार्य
समयी शिष्य का ज्ञान करे । ऐसे शिष्य चार प्रकार के होते हैं ॥ ३०-३१ ॥
एवं पुत्रकपूर्वा ये परिज्ञेयास्तु ते त्रयः ॥ ३१ ॥
किन्तु तस्य विशेषो यस्तमिदानीं निबोधतु ।
पूर्वोक्तानि समयिलक्षणानि पुत्रकादिषु त्रिष्वपि समानानि । तद्विशेषांस्तूपरि
वक्ष्यामीत्याह—एवमिति ॥ ३१-३२ ॥
जिनमें समयी शिष्य का लक्षण (२२.२.३०) कह दिया गया । इसी प्रकार
पुत्रक आदि तीन शिष्यों में भी पूर्वोक्त लक्षणों को जानना चाहिये ॥ ३१-३२ ॥
२. पुत्रकशिष्यस्य विशेषलक्षणकथनम्
विज्ञाता गुरुणा यस्य विनियोगात् कृतार्थता ॥ ३२ ॥
स्वल्पमध्योत्तमाद्येन शिक्षितेनागमेन च ।
तस्यानुग्रहबुद्ध्या तु आहूतस्याच्युतालये ॥ ३३ ॥
कृत्वा निरीक्षणाद्यं च देवधाम्नि तु क्षेपयेत् ।
तुष्टो मन्त्रमयं सम्यक् सार्घ्यपुष्पाक्षताञ्जलिः ॥ ३४ ॥
ततः प्रभृति कालाच्च ध्यानं न्यासादिकं विना ।
पूजनं मन्त्रमात्रेण वह्नितर्पणवर्जितम् ॥ ३५ ॥
योग्यतापदसिद्ध्यर्थं दत्तं बिम्बेऽप्सु वा स्थले ।
सामान्यविधिना चोक्तो गुरुणा चार्चयाऽच्युतम् ॥ ३६ ॥
स तथेति तदुक्तं च मत्वाऽऽस्ते मुदितः सदा ।
आलोचयंस्तु शास्त्रार्थं स्वमुद्रामुद्रितं तु वै ॥ ३७ ॥
शक्त्या निरीक्षमाणं च योगक्षेमादिकं गुरोः ।
तदाराधननिष्ठस्तु तच्चित्तस्तत्परायणः ॥ ३८ ॥
पुत्रकस्य विशेषलक्षणान्याह—विज्ञाता गुरुणा यस्येत्यारभ्य स्वपुत्रादधिकः
सदेत्यन्तम् । एवं च सम्यग् गृहीतशास्त्रार्थः पुत्रपदार्होऽयमिति गुरुणा ज्ञातः ।
मण्डलोपरि प्रक्षेपितपुष्पाञ्जलिकस्तदा प्रभृत्यत्राच्युतमर्चयेति गुरुणानुज्ञातो बिम्बे
मण्डलेऽप्सु वा प्रत्यहं ध्यानन्यासवह्नितर्पणानि विना मन्त्रमात्रार्चनपरः शास्त्रार्थ-
पर्यालोचनादिशीलो यः स पुत्रक इति ज्ञेयः ॥ ३२-४१ ॥