सामग्री पर जाएँ
सर्वकोश
सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)

सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)

Satvata Samhita of Pancharatra Agama with Commentary

भगवान् सङ्कर्षण / महर्षि नारद द्वारा

DevanagariHindipublished837 पृष्ठ

पृष्ठ 574, कुल 837 में से

संदर्भ में पढ़ें
पृष्ठ 574

द्वाविंशः परिच्छेदः
अधिकारिमुद्राभेदविधिः
सङ्कर्षण उवाच
लक्षणं ज्ञातुमिच्छामि चतुर्णां देव साम्प्रतम् ।
विज्ञातव्यास्तु कैर्लिङ्गैर्भेदस्तेषां तु किंस्कृतः ॥ १ ॥
अथ द्वाविंशः परिच्छेदो व्याख्यास्यते । इह पूर्वपरिच्छेदान्ते सूचितानां सामयि-
कादीनां चतुर्णां लक्षणं पृच्छति सङ्कर्षणः—लक्षणमिति ॥ १ ॥
सङ्कर्षण ने कहा—हे देव ! अब मै सामयिक, साधक, पुत्रक और आचार्य
चारों प्रकार के शिष्यों का लक्षण जानना चाहता हूँ । किन-किन लक्षणों से उनका
ज्ञान किया जा सकता है और उनका भेद किस प्रकार का है? ॥ १ ॥
१. सामयिकानां लक्षणकथनम्
श्रीभगवानुवाच
यः श्रीमान् श्रद्दधानस्तु मतिमान् सुदृढव्रतः ।
सत्यवाग् भगवद्भक्तो मिताशी सङ्गवर्जितः ॥ २ ॥
गुर्वाराधननिष्ठस्तु स्थिरबुद्धिरतन्द्रितः ।
सद्द्वैष्णवकुले जातः सुसंस्कारैः सुसंस्कृतः ॥ ३ ॥
पुरा मातापितृभ्यां तु नीतः सद्योग्यतापदम् ।
विमुक्तसङ्करो दान्तः परत्र भयशङ्कितः ॥ ४ ॥
साधुसङ्गसमाकाङ्क्षी शास्त्रार्थस्वादलम्पटः ।
तत्सञ्चयव्यसनवान् धार्मिकाणां पथि स्थितः ॥ ५ ॥
शुभकर्मरतो नित्यमदीनः सत्त्ववान् क्षमी ।
धीरो दयापरश्चैव साधूनामुपकारकृत् ॥ ६ ॥
निर्मलाम्बरधारी च विमलाङ्गः सदैव हि ।
प्रियभाषी प्रसन्नास्यः परद्रव्येष्वलोलुपः ॥ ७ ॥