सामग्री पर जाएँ
सर्वकोश
सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)

सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)

Satvata Samhita of Pancharatra Agama with Commentary

भगवान् सङ्कर्षण / महर्षि नारद द्वारा

DevanagariHindipublished837 पृष्ठ

पृष्ठ 569, कुल 837 में से

संदर्भ में पढ़ें
पृष्ठ 569

५१० सात्वतसंहिता
न शास्त्रार्थस्य शास्त्राणां बुद्धिपूर्व उपप्लवः ।
आचर्तव्य इहाज्ञानात् पारम्पर्यक्रमं विना ॥ ४७ ॥
शास्त्रशास्त्रार्थयोः साङ्कर्यं न कार्यमित्याह—नेति । एतद्वचनतात्पर्यमेवमुक्तं श्री-
पञ्चरात्ररक्षायाम्—‘‘अस्खलितपारम्पर्यप्रत्यभिज्ञानेषु स्थानेषु परिदृश्यमानप्रमाणमूला-
न्याचारपरम्परागृहीतानि च कर्माणि न मात्रयापि परिहाप्यानि, न च तद्विरुद्धान्युपा-
देयानीत्युक्तं भवति’’ (पृ० ५) इति ॥ ४७ ॥
प्रष्टव्यो भगवद्भक्त आप्तो लक्षणकोविदः ।
प्रसिद्ध आर्जवे वृद्धो नष्टं शास्त्रार्थलक्षणम् ॥ ४८ ॥
चिरकालराष्ट्रक्षोभादिना प्रस्खलितपारम्पर्यप्रत्यभिज्ञानेषु स्थानेषु वृद्धमुखात्
तज्ज्ञातव्यमित्याह—प्रष्टव्य इति ॥ ४८ ॥
जिस स्थान पर परम्परापूर्वक शास्त्रार्थ प्रस्खलित नहीं है, वहाँ परिदृश्यमान
प्रमाण के साथ मूलाधार शास्त्र को स्थापित न करे । वहाँ रञ्चमात्र भी कर्म
व्याख्यान परिस्खलित न करे और न लोक विरुद्ध उपदेश ही करे । जहाँ राष्ट्र
क्षोभ के कारण वैष्णव ज्ञान की परम्परा प्रस्खलित हो गई है, उसके परिज्ञान
परम्परा को वृद्ध वैष्णवों द्वारा जानना चाहिये ॥ ४७-४८ ॥
मुद्रामण्डलमन्त्राणां निस्सन्देहपरेण च ।
भवितव्यं गुरूणां च सकाशात् सर्वदैव हि ॥ ४९ ॥
मुद्रामण्डलमन्त्राश्च गुरोः सकाशान्निःसन्देहं ज्ञातव्या इत्याह—मुद्रेति ॥ ४९ ॥
भगवन्मन्त्रों में गुरु के द्वारा मुद्रा, मण्डल और मन्त्र का ज्ञान संदेह रहित
होकर करे ॥ ४९ ॥
न च सर्वज्ञमन्त्राणां विना भावांशकेन तु ।
आनुकूल्यं गवेष्टव्यं मुक्त्वा मण्डलदर्शनम् ॥ ५० ॥
भगवन्मन्त्राणां सिद्धारिवीक्षणादिनाऽऽनुकूल्यान्वेषणं न कार्यमित्याह—
न चेति ॥ ५० ॥
भगवन्मन्त्रों में सिद्ध अरिमन्त्र का विचार न करे । सर्वदा उनके अनुकूल
होकर ही अन्वेषण या अनुसंधान करे ॥ ५० ॥
नाभिचक्रे तु हृत्पद्मे कन्दमूले गलावटे ।
भ्रूमध्ये ब्रह्मरन्ध्रे च स्थानेष्वेतेषु मन्त्रराट् ॥ ५१ ॥
स्मर्तव्यः सूर्यसंकाशः प्रवासे शयनेऽध्वनि ।
स्वशरीरे मन्त्रनाथस्मरणस्थानानि तत्कालांश्चाह—नाभीति सार्धेन ॥ ५१-५२ ॥