सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
पृष्ठ 550, कुल 837 में से
संदर्भ में पढ़ेंविंशः परिच्छेदः
अभिषेकविधिः
नारद उवाच
दीक्षालक्षणमुक्तवैवं सीरिणं चाथ चक्रभृत् ।
यथावच्च मुनिश्रेष्ठाः पुनरेवाऽब्रवीदिदम् ॥ १ ॥
अथ विंशः परिच्छेदो व्याख्यास्यते । भगवान्नेवं दीक्षालक्षणमुक्त्वा पुनरभि-
षेकमुपदिशतीत्याह—दीक्षेति ॥ १ ॥
नारद जी ने कहा—हे श्रेष्ठ मुनियो ! चक्रधारी भगवान् श्रीकृष्ण ने हलधर
भगवान् सङ्कर्षण से इस प्रकार यथावत् दीक्षा के लक्षणों को कहने के बाद पुनः
कहा ॥ १ ॥
अभिषेककालकथनम्
अथ मण्डलदृष्टस्य शास्त्रज्ञस्य यथार्थतः ।
समाराधनसक्तस्य पुत्रकत्वं गतस्य च ॥ २ ॥
अभिषेकेऽधिकारिणं तत्प्रयोजनं कालं चाह—अथेति द्वाभ्याम् । मण्डलदृष्टस्य
दृष्टमण्डलस्येत्यर्थः, समयनिष्ठस्येति यावत् । "लब्धदर्शनमात्रो वै मन्त्रमूर्तेस्तु
मण्डले" (२२।१४) इति समयनिष्ठस्य लक्षणं वक्ष्यति । शास्त्रज्ञस्य तदनन्तरं
शास्त्रव्यवसायपरस्येत्यर्थः,
ततः प्रभृति कालाच्च सुप्रश्नाच्च सुदेशिकात् ॥
पाठपूर्वं हि शास्त्रार्थमभ्यर्थयति योऽनिशम् । (२२।१५-१६)
इति वक्ष्यमाणत्वात् । पुत्रकत्वं गतस्य "विज्ञाता गुरुणा यस्य" (२२।२९)
इत्यारभ्य, "स शिष्यः पुत्रको नाम स्वपुत्रादधिकः सदा" (२२।३८) इत्यन्तं वक्ष्य-
माणलक्षणविशिष्टस्येत्यर्थः । समाराधनसक्तस्य "पूर्ववल्लब्धदीक्षस्तु मन्त्राराधन-
तत्परः" (२२।३९) इत्यादिक्रमेण वक्ष्यमाणलक्षणविशिष्टस्येत्यर्थः । एवं मण्डल-
दृष्टस्येत्यादिविशेषणचतुष्टयविशिष्टस्य शिष्यस्य तत्कालं दीक्षानन्तरमेवाभिषेचनं
कार्यमिति फलितार्थः ।