सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
पृष्ठ 548, कुल 837 में से
संदर्भ में पढ़ेंएकोनविंशः परिच्छेदः ४८९
सर्वक्रियाविनिर्मुक्तममूर्तं परमार्थतः ॥
चातुरात्म्यं तदाद्यं वै शुद्धं संविन्मयं महत् । (५।८१-८२)
इत्यादिमूर्तेरेव प्राधान्यादेक एव मन्त्र उक्तः, एकवचनेनैव प्रार्थनेति बोध्यम् ।
अधिवासोक्ता योजना नाम,
ओमादिश जगन्नाथ सर्वज्ञ हृदयेशय ।
तत्राहं योजयाम्येनं यत्कर्म त्वत्परायणम् ॥ (१८।२३२)
इत्येवंरूपेत्यर्थः । इयं योजना ज्ञातव्या एतद्दीक्षाविषयत्वेन बोध्याऽनेनेत्यर्थः,
एकवचनप्रयोगात् । एतेन व्यूहदीक्षायां विभवदीक्षायां च तस्मिन् योजनाश्लोके
बहुवचनं योज्यमित्यर्थात् सिद्धम् । तत्राप्येकैकमन्त्रेणैव दीक्षायामेकवचनेनैव प्रार्थना-
योजनादिकं कार्यम् । अत एवास्मत्तातपादैः सात्वतामृते युष्मत्प्रसादसामर्थ्यादिति
प्रार्थनाश्लोके त्वत्प्रसादस्य सामर्थ्यदित्येकवचनं प्रयुक्तम् ।
ननु सात्वतामृते व्यापकमन्त्रदीक्षा प्रतिपादिता । व्यापकमन्त्रस्य परव्यूह-
विभवाख्यसर्वदेवविषयत्वं भवतैवोक्तम् । तादृशमन्त्रदीक्षायां सर्वे देवा अपि प्रार्थ्याः ।
तथा सति कथमेकवचनं समञ्जसं भवतीति चेत्, ब्रूमः-यथैक एव मन्त्रः सर्वान्
विषयीकरोति, तथैकवचनमपीति बोध्यम् । अत एव हि पाद्मेऽष्टाक्षरकल्पे द्वादशा-
क्षरकल्पे चैकवचनेनैव ध्यानमुक्तम्-"चतुर्बाहुमुदाराङ्गम्" इत्यादिभिः ।
ननु तर्ह्यष्टाक्षरेण परव्यूहविभवार्चनप्रकरणे सर्वत्र पाद्मोक्तध्यानमेवानुसरणीयं
किमिति चेतुच्यते, अष्टाक्षरेण तेषामर्चनप्रकारेण सामान्यतः पाद्माद्युक्तप्रकारेण वा
विशेषाकारेण वा ध्येयम् । तत्र न विवादः । अत एव हीश्वरपारमेश्वरयोर्व्यापकमन्त्रे-
णैवार्चने उक्तेऽपि तत्तद्दिव्यदेशस्थितमूर्तिध्यानमेव प्रतिपादितम् ॥ १७६-१७८ ॥
अब ब्रह्म दीक्षा की विशेषता कहते हैं-ब्रह्म दीक्षा में कर्म संग्रह में आद्य
मन्त्र का छः विभाग कर पूर्ववत् योजना करे । (आद्य मन्त्र के षोढा विभाजन का
प्रकार द्र. २.३२-३५) ॥ १७६ ॥
उक्त अवसरों पर देवताओं के स्वरूप पर होने के कारण एक वचन से ही
प्रार्थना करे । (यथा युष्मत्प्रसादसामर्थ्यादित्यादि द्र.१९.१०१) ॥ १७७ ॥
अधिवास प्रकरण में संक्षेप में योजना कह दी गयी है । उसे वहीं से समझ
लेना चाहिये । यथा-
ओमादिश जगन्नाथ सर्वज्ञ हृदयेशय ।
तत्राहं योजयाम्येन यत्कर्म त्वत्परायणम् ॥ (द्र. १८.२३२)
यह योजना दीक्षा विषयक है ऐसा समझना चाहिये । 'व्यूह दीक्षा' तथा 'ब्रह्म
दीक्षा' इन दोनों का केवल मोक्ष के अतिरिक्त और कोई फल नहीं है ॥ १७८ ॥
नित्यदीक्षाद्वयस्यास्य नान्यन्मोक्षादृते फलम् ॥ १७८ ॥
तत्रापि चातुरात्मीया दीक्षा प्राक् कमलेक्षण ।
सा० सं० - ३५