सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
पृष्ठ 542, कुल 837 में से
संदर्भ में पढ़ेंएकोनविंशः परिच्छेदः ४८३
युक्तां विश्रामपूर्वेण चतुष्केण समासतः ।
दण्डवत् सन्निवेशेन संस्थिता ह्येवमेव हि ॥ १५७ ॥
द्विषट्कं धारणानां च द्वादशाध्यात्मलक्षणम् ।
सोपानभूतं यत् क्रान्त्वा द्वादशान्तं विशेत् परम् ॥ १५८ ॥
तस्मिन् वर्णाध्वन्यकारादिक्रमेण विश्रामादिचतुष्टयेनास्य ज्ञेयत्वं वासुदेवाद्येकै-
कमूर्तेरपि विश्रामादिचतुष्केण युक्तत्वं दण्डवत् सन्निवेशेन संस्थितिं तस्यां द्वादश-
धारणानां द्वादशान्तारोहणे सोपानभूतत्वं चाह—वर्णव्यूहेति सार्धैस्त्रिभिः । आ
वासुदेवतो = वासुदेवमारभ्येत्यर्थः । अस्यैकैका मूर्तिरित्यत्रान्वयः । विश्रामो वर्णानां
सूक्ष्मावस्थेत्यर्थः । उदयः = पश्यन्त्यवस्था । व्याप्तिर्मध्यमावस्था । व्यक्तिर्वैखरी-
वस्था । तथा च लक्ष्मीतन्त्रे—
शान्तरूपाऽथ पश्यन्ती मध्यमा वैखरी तथा ।
चतुरूपा चतुरूपं वच्मि वाच्यं स्वनिर्मितम् ॥
वासुदेवाद्यः सूक्ष्मा वाच्याः शान्तादयः क्रमात् । (१८।२९-३०)
एवं वासुदेवाद्येकैकमूर्तिरपि विश्रामादिचतुष्टयेन युक्ता ज्ञेया । तत्र विश्राम-
स्तुरीयव्यूहावस्था । उदयः = सुषुप्तिव्यूहावस्था । एवं विश्रामादिशब्दवाच्यतुरीयव्यूहा-
वस्थादिचतुष्टयविशिष्टा वासुदेवादिमूर्तिर्विश्रामादिशब्दवाच्यसूक्ष्मावस्थादिचतुष्टयश्लिष्टे-
ष्वकारादिवर्णेषु दण्डवत्सन्निवेशेन संस्थितेति फलितोऽर्थः । अथवा वर्णानां सूक्ष्माद्य-
वस्था इदानीं न विवक्षिताः, किन्तु विश्रामादिशब्दैर्वासुदेवामूर्तेस्तुरीयव्यूहावस्थादय एव
विवक्षिताः । तासामवस्थानामेकैकस्मिन् वर्णे एकैकावस्थाक्रमेण प्रत्येकं वर्ण-
चतुष्टयेऽवस्थाचतुष्टयं बोध्यम् ।
एवमवस्थाचतुष्टयात्मके वर्णचतुष्टये वासुदेवाद्यैकेका मूर्तिर्ज्ञेया । एवं चाका-
रादिषोडशवर्णानां चतुष्टयचतुष्के जाग्रद्व्यूहवासुदेवाद्यश्चतस्रो मूर्तयः, (अ?क)
कारादिचतुष्टयवर्णानां चतुष्टयचतुष्के स्वप्नव्यूहवासुदेवाद्यश्चतस्रो मूर्तयः, थकारादि-
सकारान्तषोडशवर्णानां चतुष्टयचतुष्के सुषुप्तिव्यूहमूर्तयः, एतद्द्वादशान्ते हकारे—
अभेदेनादिमूर्तेर्वै संस्थितं वटबीजवत् ।
सर्वक्रियाविनिर्मुक्तममूर्तं परमार्थतः ॥
चातुरात्म्यं तदाद्यं वै शुद्धसंविन्मयं महत् । (५।८१-८२)
इत्युक्तलक्षणा तुरीयव्यूहमूर्तिरित्यर्थो ज्ञेयः । एवं हकाराद्यकारान्तं प्राति-
लोम्येनापि ज्ञेयम् । यद्वाऽकारादिवर्णषोडशके व्यक्तिशब्दवाच्या जाग्रदवस्था,
ककारादिवर्णषोडशके व्याप्तिशब्दवाच्या स्वप्नावस्था, थकारादिसकारान्तवर्ण-
षोडशके उदयशब्दवाच्या सुषुप्त्यवस्था, द्वादशान्ते हकारे विश्रामशब्दवाच्या तुरीया-
वस्था । तत्र तत्र तत्तद्व्यूहमूर्तयः पूर्वोक्तक्रमेणैव बोध्याः ।
नन्वत्र भवदुक्तं त्रिविधं व्याख्यानमप्यसङ्गतम्, जगज्जननीकृतव्याख्या-
विरोधात् । लक्ष्मीतन्त्रे हि—