सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
पृष्ठ 529, कुल 837 में से
संदर्भ में पढ़ें४७० सात्वतसंहिता
शिष्यचैतन्यस्य स्वहृदि सङ्कर्षणम्
पूरकेण समाकृष्य शिष्यहृत्कमलाद् हृदि ।
अथ व्यक्तिनिरस्तं च क्ष्माबीजं परलक्षणम् ॥ ८० ॥
ज्ञशक्त्या ज्ञानसंस्रुद्धं कृत्वादायानलाद् हृदि ।
प्रणवासनविश्रान्तं विरेच्याब्जे तु शैशवे ॥ ८१ ॥
स्मृत्वाऽथ शिष्यचैतन्यमेकमेव द्विरूपधृक् ।
शक्तिमच्छक्तिभावेन शक्तित्वेन तु संस्मरेत् ॥ ८२ ॥
क्ष्मातत्त्वान्तर्गतं कुण्डे शक्तिमत्त्वेन तत्पुनः ।
रेचयित्वा स्वनाम्ना च विग्रहे मध्यवर्त्मना ॥ ८३ ॥
नियोज्य तत्समाधौतं जपध्यानैकलक्षणे ।
तदेव पार्थिवं बीजं हृदा वै होमकर्मणा ॥ ८४ ॥
सम्यक् तस्योपकारार्थं नेतव्यं सूक्ष्मदेहताम् ।
स्वाहान्तं भोगसिद्ध्यर्थं नमोऽन्तं मोक्षसिद्धये ॥ ८५ ॥
भोगमोक्षाप्तये चापि तदेवोभयलक्षणम् ।
कर्मणामवसाने तु सम्पादयपदं न्यसेत् ॥ ८६ ॥
एवं तु विग्रहे सूक्ष्मे तद्धृत्पद्मगतस्य च ।
शिरसा चाधिकारात् तु तस्यापाद्य यथास्थितम् ॥ ८७ ॥
शिखामन्त्रेण तद्भोगं निर्वर्त्य शतसंख्यया ।
वर्मणा तत्फलप्राप्तिं तल्लयत्वमपि स्मरेत् ॥ ८८ ॥
सुतृप्तिमथ नेत्रेण कुर्यात् तेनैव संस्थितिम् ।
तत्त्यागश्चास्त्रमन्त्रेण विश्लेषेण युतो भवेत् ॥ ८९ ॥
मूलेनाथ गृहीत्वा तत् कुर्याच्चैवात्मसात् पुनः ।
तद्गच्छक्तिं तदीयां च कुण्डाद् व्यापकलक्षणाम् ॥ ९० ॥
क्ष्मातत्त्वस्याथ साध्यस्य ह्नानाधारस्य शान्तये ।
पूर्वसंख्यं तु चास्त्रेण कृत्वा होमं महामते ॥ ९१ ॥
स्रुवमाज्येन सम्पूर्य स्कन्धसूत्रात् तु पार्थिवम् ।
विकर्त्य पूर्णया सार्धं विलाप्याग्नौ स्वके पदे ॥ ९२ ॥
मूलमन्त्रेण सहसा हृत्पद्मप्रेरितेन तु ।
स्वदेहाद् रेचकेनाथ प्रेर्य शक्तिं च शैशवीम् ॥ ९३ ॥
तयाक्रान्तमधःस्थं च संस्मरेद् व्यतिरिक्त्या ।
कबिन्दुनेवाब्जपत्रमाद्याध्वानं च भौवनम् ॥ ९४ ॥