सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
पृष्ठ 522, कुल 837 में से
संदर्भ में पढ़ेंएकोनविंशः परिच्छेदः ४६३
हुते होमादिभिस्तप्तैः सुरूपैरर्चितैः क्रमात् ॥
दासभूतं यदात्मानं बुद्ध्येत परमात्मनः ।
तदैव गात्रं कुर्वीत शङ्खचक्रादिलाञ्छितम् ॥ (३।६२-६३)
इति भारद्वाजसंहितोक्तो ग्राह्यः । तत्र विष्ण्वायतनाग्निवैष्णव एव । गुरोरा-
त्मनो वाऽग्निश्चेत्, स्वगृह्योक्तप्रतिष्ठापूर्वकमीश्वरतन्त्रोपबृंहितवैष्णवीकरणप्रक्रियया
संस्कार्यः । ऊर्ध्वपुण्ड्रधारणमपि चक्राङ्कनानन्तरमेव कार्यम् । नाममन्त्रयागाख्य-
संस्कारत्रयं तु दीक्षाकाल एवानुष्ठेयम्, तस्य दीक्षाङ्गत्त्वेनैव प्रतिपादितत्वात् ।
ननु तर्हि पञ्चसंस्काराणां यौगपद्येनानुष्ठानं न संभवतीति चेत्, किं तावता
प्रत्यवायः । जातस्य कुमारस्य द्वादशेऽहनि नामकरणप्रकरणे शङ्खचक्राङ्कनं शास्त्रे-
षूच्यते । तथैव शिष्टैरनुष्ठीयते,
द्वादशेऽहनि पुत्रस्य केशवो बन्धुभिः सह ।
तेन श्रीशैलपूर्णेन गुरुणाऽमिततेजसा ॥
शङ्खचक्राङ्कनं पूर्वं कारयित्वाऽथ लीलया ।
लोके रामानुज इति नाम चक्रे सुमङ्गलम् ॥ (२।३८-३९)
इति प्रपन्नामृतादिषु श्रीभाष्यकारादिशिष्टाचारोऽप्युद्घुष्यते च । अतो न पञ्च-
संस्काराणां यौगपद्येनानुष्ठाननियमोऽस्ति ।
ननु तदानीं तेषां यौगपद्येनानुष्ठानासंभवेऽपि पुनरुपनयनानन्तरं विवाहानन्तरं वा
पञ्चसंस्काराणां यौगपद्येनानुष्ठानं संभवति, तथैव भाष्यकारादिशिष्टाचारश्च प्रतिपादित
इति चेत्, सत्यम् । अत एव हि दीक्षाकाले तेषां पुनःकरणे हेतुः पूर्वमस्माभिरपि प्रति-
पादितः ॥ ३९-४६ ॥
फिर उसे अपनी बाईं ओर स्थापित कर उसके दोनों नेत्रों को वस्त्र से
आच्छादित करे । फिर उसकी आँखे खोलकर उसके हाथों से अर्घ्य युक्त पुष्पाञ्जलि
प्रक्षिप्त करावे । फिर वह शिष्य उन परमधाम भगवान् का दर्शन करे, जो मन्त्र के
द्वारा सर्वोत्तम फल प्रदान करने वाले हैं । उसी समय आचार्य उस शिष्य का, वह
जैसा जिस वर्ण का है उसका, वैसा ही उसी वर्ण के अनुसार यथोचित नामकरण
करे ॥ ४०-४१ ॥
रहस्यसंज्ञं मुख्यं च गौणं वास्य यथास्थितम् ।
सामान्यं वासुदेवाद्यं नाम स्वाङ्गाच्चतुर्ष्वपि ॥ ४२ ॥
सर्वेषां सविशेषं वा यथा चानुक्रमेण तु ।
द्विषट्कमूर्त्यङ्कितं च स्वाम्यन्तं ब्राह्मणेषु च ॥ ४३ ॥
रहस्य संज्ञा वाला, अथवा मुख्य, अथवा गौण, अथवा यथास्थित (जैसा है)
वैसा नामकरण करे, अथवा चारों वर्णों का वासुदेवादि सामान्य नामकरण करे ।
अथवा क्रमानुसार सभी चारों वर्णों का विशेषता युक्त नामकरण करे । ब्राह्मण
शिष्य को १२ मूर्तियों से अङ्कित कर स्वाम्यन्त नामकरण करे ॥ ४२-४३ ॥