सामग्री पर जाएँ
सर्वकोश
सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)

सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)

Satvata Samhita of Pancharatra Agama with Commentary

भगवान् सङ्कर्षण / महर्षि नारद द्वारा

DevanagariHindipublished837 पृष्ठ

पृष्ठ 520, कुल 837 में से

संदर्भ में पढ़ें
पृष्ठ 520

एकोनविंशः परिच्छेदः ४६१
मौद्गल्याद्यास्तथान्ये च न तच्चिह्नविवर्जिताः ।
भवेयुः सर्वथा तस्माच्छङ्खचक्रगदाम्बुजः ॥
लोहैर्नलसन्तप्तैस्तत्तन्मन्त्राधिवासितैः ।
पूजितैरर्घ्यगन्धाद्यैरङ्कितव्याः क्षणेन तु ॥
त्रय्यन्तज्ञानसम्पन्ना यथोक्ताचारनिष्ठिताः ।
विप्राद्यास्ते च शूद्राश्च यदैव कृतलक्षणाः ॥
तदा तु योग्या विज्ञेयाः समयश्रवणादिषु । (१५।१६१-१६५),
इति कृतलक्षणानामेव दीक्षायां योग्यता प्रतिपादिता । नन्वेवम्—
सुदर्शनं धारयित्वा वह्नितप्तं द्विजोत्तमः ।
उपनीय विधानेन पश्चात् कर्मसु योजयेत् ॥
इति कृतलक्षणस्यैव गायत्रीग्रहणादिकर्मयोग्यत्वं प्रतिपाद्यते,
भुजे चक्रं द्विजातीनां शिरश्चक्रं तु दैवतम् ।
अचक्रद्विजदेवानां पूजा दानं च निष्फलम् ॥
इत्युक्त्याऽकृतलक्षणस्य कन्यादानाद्यर्हत्वमपि नास्ति, अतश्चक्रादिलाञ्छने उप-
नयनविवाहकालावान्यनुलङ्घनीयाविति चेत्, कस्येष्टं तदुल्लङ्घनम् । अनुपपत्तिवशात्
स्मार्तसंस्कारोल्लङ्घनेऽपि दीक्षाख्यवैष्णवसम्प्रदायकालः सर्वथाऽनुलङ्घनीय इति
निर्णयः । यतः पाद्मे— "चक्रेणैवाङ्कितो विद्वान् वासुदेवं समाश्रयेत्" इति प्रतिपाद्यते ।
अत एवेश्वरे दीक्षाकालस्याप्युल्लङ्घनभिया तत्रकरण एव चक्राङ्कनादिकमुक्तम् ।
तत्पूर्वमेव कृतचक्राङ्कनानां तु दीक्षाकाले तन्न प्रकृतम् । आचारे सति पुनर्दीक्षाकाले
तत्रकरणेऽपि न प्रत्यवायः,
चक्रादि धारयेद् विप्रो ललाटे मस्तके भुजे ।
पातकादिविशुद्ध्यर्थं भवक्लेशविनाशनम् ॥
इत्यादित्यपुराणादिषु शुद्ध्यपादकत्वेन च प्रतिपादनात्, पूर्वं कृतलाञ्छनस्य
देहोपचयादिना मलिनत्वे पुनः स्फुटत्वसिद्धेश्च । ननु—
विष्णवागमादितन्त्रेषु दीक्षितानां विधीयते ।
शङ्खचक्रगदापूर्वैरङ्कनं नान्यदेहिनाम् ॥
इत्यादिवचनैर्दीक्षानन्तरमपि चक्राङ्कनमवगम्यत इति चेन्न, दीक्षितानामित्यस्य
दीक्षार्हपरत्वात् । सिद्धान्तचन्द्रिकायां तु दीक्षितानामित्यस्य मुमुक्षुपरत्वमुक्तम् । तद-
संगतम्, तन्त्रदीक्षाप्रवेशभिया तादृशार्थाङ्गीकरणात् । निर्निमित्तेयं भीतिः । यतो महा-
भारते शान्तिपर्वणि—
अवश्यं वैष्णवो दीक्षां प्रविशेत् सर्वयत्नतः ।
दीक्षिताय विशेषेण प्रसीदेन्नान्यथा हरिः ॥
वसन्ते दीक्षयेद् विप्रं ग्रीष्मे राजन्यमेव च ।
शरदः समये वैश्यं हेमन्ते शूद्रमेव च ॥