सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
पृष्ठ 464, कुल 837 में से
संदर्भ में पढ़ेंसप्तदशः परिच्छेदः ४०५
प्राप्नोति नरकस्थांश्च पितॄनपि नयेद् दिवम् ॥ ३६२ ॥
पत्रपुष्पफलान्नाद्यसस्यदध्योदनादिना ।
रसैरत्नैश्च सद्गन्धैर्वस्त्रोत्कृष्टैस्तु धातुभिः ॥ ३६३ ॥
प्रवालमुक्तामाणिक्यैर्भक्त्या च विभवे सति ।
बिम्बस्थं मण्डलस्थं वा सर्वैर्यो मन्त्रिराड् यजेत् ॥ ३६४ ॥
षडशीतिमुखोत्थायां पूर्णायों सोपवासकः ।
यज्ञधर्मफलाकाङ्क्षी स नूनं तदवाप्नुयात् ॥ ३६५ ॥
यो हि वाञ्छति सद्धर्मतीर्थाभिगमनं महत् ।
स यथावत् क्रमात् पूर्वं मण्डले मन्त्रराड् यजेत् ॥ ३६६ ॥
ततः सम्भृतसम्भारः स्नानपूर्व समर्चयेत् ।
सिद्धप्रतिष्ठितं बिम्बं सैद्धं वाथ स्वयंकृतम् ॥ ३६७ ॥
पञ्चगव्यदधिक्षीरघृतमध्विक्षुवारिभिः ।
सर्वौषधीगन्धरत्नफलपुष्पान्वितैर्घटैः ॥ ३६८ ॥
साङ्गेनामन्त्र्य मन्त्रेण शताष्टफलपूरितैः ।
अन्तरीकृतशुद्धाम्भःकुम्भैरर्घ्यसमन्वितैः ॥ ३६९ ॥
श्रद्धापूतेन मनसा एवं निष्पाद्यते यदि ।
प्रसादं मन्त्रनाथस्य प्रागुक्तमचिराल्लभेतू ॥ ३७० ॥
संक्रान्त्यां सोपवासस्तु मण्डले मन्त्रनायकम् ।
समावाह्य यजेद् यस्तु फलपुष्पैर्र्यथर्तुजैः ॥ ३७१ ॥
सप्ताहं फलमूलाशी त्रिकालं स्नानतत्परः ।
बहुशोऽष्टाङ्गपातैस्तु प्रदक्षिणसमन्वितैः ॥ ३७२ ॥
स नूनं समवाप्नोति शश्वद् यस्तद् व्रतोद्भवम् ।
अथाभिमतदानाद् वै यो धर्ममभिवाञ्छति ॥ ३७३ ॥
विषुवस्थं दिनं प्राप्य सोपवासस्तु संयतः ।
अभिसन्धाय मनसा धर्मं दानादभीप्सितम् ॥ ३७४ ॥
निर्वर्त्य मण्डलं रम्यमग्न्यगारसमन्वितम् ।
गोसम्भवैस्तु नैवेद्यैर्भक्ष्यैः सफलमूलकैः ॥ ३७५ ॥
स्रग्वरैर्धूपदीपांस्तु तिलैर्होमाम्बुभाजनैः ।
सम्यगिष्ट्वाऽथ सन्तर्प्य ज्वलनान्तर्गतं ततः ॥ ३७६ ॥
समिद्भिराज्येन तिलैः सघृतैस्तण्डुलान्वितैः ।
ततोऽभिवर्धते धर्मो मूर्तादानाच्छताधिकम् ॥ ३७७ ॥