सामग्री पर जाएँ
सर्वकोश
सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)

सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)

Satvata Samhita of Pancharatra Agama with Commentary

भगवान् सङ्कर्षण / महर्षि नारद द्वारा

DevanagariHindipublished837 पृष्ठ

पृष्ठ 460, कुल 837 में से

संदर्भ में पढ़ें
पृष्ठ 460

सप्तदशः परिच्छेदः ४०१
प्रणवेन चतुर्दिक्षु संरुद्धं नाम संलिखेत् ।
रक्षवीप्सापदोपेतं पत्रसन्धिषु षट्स्वथ ॥ ३४१ ॥
द्वादशारं बहिश्चक्रं नाभिनेमियुतं लिखेत् ।
नाभेरष्टमबीजं यत् तदरेष्वन्तरा न्यसेत् ॥ ३४२ ॥
सप्तमाद् दशमं यावद् वर्जयित्वा अराक्षरम् ।
क्रमेण भेदयेच्छेषैस्तदराणैः सबिन्दुकैः ॥ ३४३ ॥
जहिवीप्सापदं दोषानमुकस्येति विन्यसेत् ।
सर्वेषामन्तरालेषु अस्त्रमन्त्रं तु पूर्ववत् ॥ ३४४ ॥
अमुकं पाहि पाहीति द्वादशाक्षरमध्यगम् ।
चक्रनाभौ तु विन्यस्य नेमिदेशे तथैव हि ॥ ३४५ ॥
क्रमादथ बहिर्लिख्य मन्त्रचक्रस्य यत्नतः ।
वृत्तत्रयार्धचन्द्राणि चतुरश्रपुराणि च ॥ ३४६ ॥
बिन्दुस्वस्तिककह्लारवज्रसंलाञ्छितानि च ।
नाभिपूर्वद्वितीयेन चतुर्थेन तदादिना ॥ ३४७ ॥
क्रमाद् वर्णचतुष्केण तानि युक्तानि कारयेत् ।
सषडङ्गेन बीजेन नाम रक्षपदानुगम् ॥ ३४८ ॥
सम्पुटीकृत्य वृत्ताख्यं मण्डलं परिपूरयेत् ।
द्वादशार्णेन बाह्यस्थं तृतीयं पूर्य पूर्ववत् ॥ ३४९ ॥
द्वितीयं वा चतुर्थं तु बहिर्दिक्ष्वष्टके क्रमात् ।
रक्षवीप्सापदोपेतं नामवर्जं नियोजयेत् ॥ ३५० ॥
सह रोचनया योज्य कर्पूरं कुङ्कुमं तु वै ।
क्षीरेण कापिलेनाथ तद्गोमयरसेन च ॥ ३५१ ॥
निशाम्बुना समालोड्य निम्नगासलिलेन वा ।
विलिख्य भूर्जपत्रे वा बर्हिपक्षेण वासरे ॥ ३५२ ॥
शुभेऽनुकूले नक्षत्रे सुलग्नेऽभ्युदिते ग्रहे ।
पूज्य संवेष्ट्य सूत्रेण ततः सद्धातुना तु वै ॥ ३५३ ॥
सन्धार्य मूर्ध्नि कण्ठे वा सततं दक्षिणे भुजे ।
दैवदोषविमुक्तस्तु वर्धते शोकवर्जितः ॥ ३५४ ॥
अधिभूतैर्भयैर्मुक्तो यावज्जीवं हि तिष्ठति ।
परार्थतो वा स्वार्थेन कृतकृत्यो यदा भवेत् ॥ ३५५ ॥
दोषवान् शान्तिदेनैव कर्मणाऽनेन साधुना ।