सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
पृष्ठ 442, कुल 837 में से
संदर्भ में पढ़ेंसप्तदशः परिच्छेदः ३८३
चन्दनेन समालिप्तं कृत्वा पुष्पस्रगन्वितम्।
तन्निधायोदिते स्थाने ततो मन्त्रेश्वरं यजेत् ॥ २२५ ॥
हृत्पुण्डरीकमध्यस्थं परिवारसमन्वितम्।
स्वच्छस्फटिकवर्णाभं हिमादधिकशीतलम् ॥ २२६ ॥
ध्यायेत् तं ब्रह्मरन्ध्रोर्ध्वं सितं पद्ममधोमुखम्।
तत्कर्णिकोदरे लीनं स्मरेद् गगनमण्डलम् ॥ २२७ ॥
प्रकाशितं निशानाथमयूखाखिलतारकैः।
विक्षिप्तवाहैराकीर्णं सुरसिन्धुविनिर्गमैः ॥ २२८ ॥
अथार्घ्यपुष्पपूर्वाणां भोगानामर्चने विभोः।
प्रागुक्तानां क्रमेणैव अनुसन्धानमाचरेत् ॥ २२९ ॥
यं यं संकल्पयेद् भोगं तं तं भाव्य सुधामयम्।
पतन्तमम्बराद् वेगादमृतांशुपरिप्लुतम् ॥ २३० ॥
साक्षादमृतरूपस्तु तैस्तैरमृतसम्भवैः।
बृंहितं मुदितं मग्नं संप्लुतं मन्त्रराट् स्मरेत् ॥ २३१ ॥
ततोऽवतार्य हृदयात् साधनेन यजेद् बहिः।
इष्ट्वाऽथ वह्निगर्भस्थं ध्यात्वा सन्तर्पयेत् ततः ॥ २३२ ॥
सामलैर्राज्यसिक्तैस्तु विल्वैर्दुर्वाङ्कुरैर्नवैः।
तिलैर्गोक्षीरसंयुक्तैर्लाजतण्डुल मिश्रितैः ॥ २३३ ॥
सिताज्यपुष्पसंयुक्तैर्दद्यात् पूर्णाहुतिं ततः।
मधुक्षीरोदकेनाथ कुर्याद् द्वै मन्त्रसेचनम् ॥ २३४ ॥
घृतेन पायसान्नेन पायसेन फलैः शुभैः।
पूर्ववद् बलिदानं तु कुर्यादाप्यायनं भवेत् ॥ २३५ ॥
अथाप्यायनविधिमाह — अथानेन हि मन्त्रेणेत्यारभ्य कुर्यादाप्यायनं भवेदित्य-
न्तम्। सार्णमध्यगं सकारान्तर्गतमित्यर्थः। संज्ञापदं = साध्यनामधेयमित्यर्थः।
नाभिसप्तवर्णं यत् सकारः, नाभितुर्योपरि स्थितं वकारोपरि स्थितमित्यर्थः। इदं
प्रथमबीजम्। उत्तराधरयोगेन तदेवादाय वैः पुनः। सकारस्याधो वकारं संयोज्ये-
त्यर्थः। इदं द्वितीयबीजम्। नाभितृतीयं लकारं द्वाभ्यामधः, वक्ष्यमाणसकार-
वकारयोरित्यर्थः। तत्रापि नाभेः सप्तमं सकाराख्यं वर्णम्, अधःस्थम्, तच्चतुर्थं
वकाराख्यं वर्णं मूर्धनि। इदं तृतीयबीजम्। सप्तमं सकारम्, तृतीयं लकारम्,
नेमिवर्गादूनविंशकं बकारम्। इदं चतुर्थबीजम्। भूयो नेमेस्तमादाय सकार-
मादायैत्यर्थः। नाभिसप्तमपृष्ठगं सकारोपरि स्थितमित्यर्थः। नाभिदेशात् तृतीयं
लकारमित्यर्थः। इदं पञ्चमबीजम्। सर्वेषां पञ्च(म) बीजानामित्यर्थः। पञ्चमारग-