सामग्री पर जाएँ
सर्वकोश
सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)

सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)

Satvata Samhita of Pancharatra Agama with Commentary

भगवान् सङ्कर्षण / महर्षि नारद द्वारा

DevanagariHindipublished837 पृष्ठ

पृष्ठ 438, कुल 837 में से

संदर्भ में पढ़ें
पृष्ठ 438

सप्तदशः परिच्छेदः ३७९
बीजं नाभितृतीयं यत् तदधः पञ्चमारगम् ॥ १८७ ॥
शिरसाऽरान्तपूर्वेण युक्तं बाह्याद् दशादिना ।
तदन्तस्थं न्यसेद् बीजं नाभितुर्यासनस्थितम् ॥ १८८ ॥
नाभिसप्तमगर्भेऽथ विन्यसेत् कमलं तु तत् ।
बीजं पुष्टिपदोपेतं कुरुवीप्सासमन्वितम् ॥ १८९ ॥
लिखेत् प्रणवपूर्वं तु बहिरष्टासु दिक्षु वै ।
संवेष्ट्य रक्तसूत्रेण मधुतोयघटे न्यसेत् ॥ १९० ॥
निधाय पूर्ववत् कुर्याद् दिग्बन्धं हृदयादिकैः ।
अस्त्रेण तु विदिग्बन्धं नेत्रेणोर्ध्वमधस्तथा ॥ १९१ ॥
ततो विद्रुमसंकाशं मन्त्रमावाह्य संयजेत् ।
अथो मन्त्रगणं सर्वं लोके शास्त्रान्तसंयुतम् ॥ १९२ ॥
रक्तैरकण्टकैर्हृद्यैरर्चनं कुसुमैर्हितम् ।
राजमुद्गैस्तु नैवेद्यं युक्तमत्र गुलोदनम् ॥ १९३ ॥
गुलरञ्जितभक्ष्याणि कुर्यान्नानाविधानि वै ।
सम्भवे सति वै रक्तं सर्वं कार्यमसम्भवे ॥ १९४ ॥
रञ्जयेत् कुङ्कुमाद्येन केनचिद् रक्तधातुना ।
सर्वं जपावसानं तु कृत्वा होमं समाचरेत् ॥ १९५ ॥
घृतैस्तिलैस्तु पूर्वोक्तैः शर्कराबदरान्वितैः ।
दत्त्वा पूर्णाहुतिं कुर्यात् सेचनं शर्कराम्भसा ॥ १९६ ॥
पूर्ववन्मन्त्रनाथस्य साध्यगर्भीकृतस्य च ।
ततः पूर्वोक्तविधिना बलिकर्म समाचरेत् ॥ १९७ ॥
सप्तरात्रं त्रिरात्रं वा पुष्टिरुत्पद्यते महत् ।
प्रभावान्मन्त्रराज्यस्य विधिनानेन सर्वदा ॥ १९८ ॥
अथ पौष्टिकविधिमाह—पौष्टिकं च निबोधतु इत्यारभ्य विधिनानेन सर्वदे-
त्यन्तम् । नाम = साध्यनामधेयम् । पूर्ववत् पद्मगर्भस्थं लिखेत्, कर्णिकामध्ये लिखे-
दित्यर्थः । नेमेरेकोनविंशाख्यवर्णस्य बकारस्य नाभितृतीयं बीजं लकारं पञ्चमारगम्
उकारमरान्तपूर्वेणानुस्वारेण बाह्याद् दशादिना टकारेणेत्यर्थः । नाभितुर्यासनस्थितं
पूर्ववद् वकारस्योपरि स्थितं बीजं नृसिंहबीजं तदन्तस्थं न्यसेत्, कर्णिकामध्ये
विलिखेदित्यर्थः । नाभिसप्तमगर्भे = सकारगर्भे इत्यर्थः । बीजं = नृसिंहबीजम् ।
पुष्टिपदोपेतं कुरुवीप्सासमन्वितं 'पुष्टिं कुरु कुरु' इत्यनेनान्वितमित्यर्थः ।
तथा च प्रयोगः—कुङ्कुमक्षोदमिश्रेण कुसुम्भरजसा पूर्ववन्मण्डलमालिख्य रक्त-
चन्द्रकभूषितं कृत्वां कुम्भस्थापनादिकं सर्वं पूर्ववत् कृत्वोपकुम्भाष्टकं तु नीवारतण्डुलै-