सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
पृष्ठ 430, कुल 837 में से
संदर्भ में पढ़ेंसप्तदशः परिच्छेदः ३७१
यथाक्रमं समभ्यर्च्य नैवेद्यं प्रतिपाद्य च। (६।७४-७५) इति,
एवमुक्त्वा समभ्यर्च्य चतुरः पाञ्चरात्रिकान्॥ (१४।३०)
इति च चत्वारः कारिणः प्रोक्ता इति ज्ञेयम् । तत्राप्यशक्तावेक एवोक्तः सप्तम-
परिच्छेदे (७।७८) । तदानीमेकस्यैव चतुर्मूर्त्यात्मकत्वं बोध्यम् । न्यस्तमन्त्रराडाहृत्य
हविषि न्यस्तं मन्त्रत्रयमुपसंहृत्येत्यर्थः । एवमेवोक्तं पारमेश्वरादिष्वपि-
विनिवेश्य च देवाय विन्यास्तानोदनोपरि ॥
बलवीर्यादिसन्मन्त्रान् रसवीर्यादिवर्जितान् ।
ओमित्युपाहरेन्मन्त्री ततः संहृतिमुद्रया ॥ इति । (१८।३८७-३८८)
त्रय्यन्तज्ञानसम्पन्नान् यथोक्ताचारनिष्ठितान् ।
समाहूयार्घ्यगन्धाद्यैः समभ्यर्च्य यथाक्रमम् ॥
भगवच्छेषमादाय न्यस्तमाहृत्य मन्त्रपम् ।
प्राङ्निवेदनकाले तु चतुर्धा संविभज्य तम् ॥
प्रापणं मधुपर्काद्यमन्यच्चाभ्यवहारिकम् ।
तेभ्यो दद्यादेकभागमर्घ्योदकपुरस्सरम् ॥ इति ।
पूर्वं होमात् पूर्वं कारिप्रदानमुक्तम्, इदानीं होमानन्तरमपि कारिप्रदानस्योक्तत्वात्
तस्य कालद्वयेऽन्यतरकर्तव्यत्वमुक्तं भवति ॥ १४०-१४१ ॥
इसके पश्चात् गुरु कलशोदक से शिष्य का अभिषेक करे । फिर कार्य-
कर्त्ताओं को देने के लिये तथा अपने यज्ञ की सिद्धि के लिये भगवान् से नैवेद्य
ग्रहण की प्रार्थना करे । इस प्रकार मन्त्रराज को निवेदित नैवेद्य प्रथमतः ब्राह्मण को
ही देना चाहिए ॥ १४०-१४१ ॥
क्षमापयेत् ततो देवं यत्र यत्रावतारितम् ।
अथ शिष्टैस्तु नैवेद्यैर्यजेद् गणपतिं प्रभुम् ॥ १४२ ॥
अपराधक्षमापणमाह—क्षमापयेदित्यर्धेन । यत्र यत्र कुम्भे मण्डलेऽग्नौ चेत्यर्थः ।
फिर जहाँ-जहाँ कुण्ड, मण्डल और अग्नि में भगवान् को पधराया गया हो
उन-उन स्थानों पर भगवान् से क्षमा प्रार्थना करे । फिर शेष नैवेद्यों से प्रभु गणपति
का यजन करे ॥ १४२ ॥
विष्वक्सेनाभिधानं चाप्यर्घ्याद्यैरर्चितो हि यः ।
चरुरूपेण चान्नेन सोदकेन हृदा ततः ॥ १४३ ॥
बहिराराधनस्थानात् प्रादक्षिण्येन निक्षिपेत् ।
पूर्वादीशानपर्यन्तं मन्त्री भूतबलिं तदा ॥ १४४ ॥
विष्वक्सेनार्चनमाह—अथेति । शिष्टैः कारिप्रदानावशिष्टैरित्यर्थः,
नैवेद्यैर्मधुपर्काद्यैर्मुख्यमूर्तेर्निवेदितैः ॥
द्विजप्राशनशिष्टैस्तु स्वयं प्राशनवर्जितैः। (२०।१३-१४)