सामग्री पर जाएँ
सर्वकोश
सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)

सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)

Satvata Samhita of Pancharatra Agama with Commentary

भगवान् सङ्कर्षण / महर्षि नारद द्वारा

DevanagariHindipublished837 पृष्ठ

पृष्ठ 424, कुल 837 में से

संदर्भ में पढ़ें
पृष्ठ 424

सप्तदशः परिच्छेदः ३६५
एकैकं हृदयादीनां सर्वेषां विहितं त्वथ ॥ १०७ ॥
क्रियाङ्गत्वान्न दोषोऽस्ति अन्यथा तज्जपं विना ।
सकृज्जपस्याप्यकरणे प्रत्यवाय इत्याह—एकैकमिति ॥ १०७-१०८ ॥
हृन्मन्त्रादि का एक-एक बार जप करे । ये मन्त्र मूलमन्त्र के आराधन के
अङ्ग हैं । अतः एक बार भी जप करने में कोई दोष नहीं । यदि इन मन्त्रों को
एक बार भी जप न करे तब प्रत्यवाय होता है ॥ १०७-१०८ ॥
तमर्चयित्वाऽष्टाङ्गेन प्रणम्य परमेश्वरम् ॥ १०८ ॥
स्मृत्वाऽनुज्ञां समादाय यजेद् वह्निगतं ततः ।
एवं जपयज्ञानन्तरं साष्टाङ्गप्रणामजितन्तादिस्तोत्रपठनपूर्वकं भगवदनुज्ञया वह्नि-
सन्तर्पणं कुर्यादित्याह—तमिति ॥ १०८-१०९ ॥
फिर साधक भगवान् का अर्चन कर अष्टाङ्ग प्रणिपात द्वारा उनको प्रणाम
करे । तत्पश्चात् भगवान् का स्मरण कर वह्नि सन्तर्पण द्वारा उनके यजन की आज्ञा
लेवे ॥ १०८-१०९ ॥
कुण्डं सुलक्षणं कृत्वा संस्कारैः संस्कृतं पुरा ॥ १०९ ॥
पूजयित्वार्घ्यपुष्पाद्यैस्तत्राग्निमवतार्य च ।
सुसमिद्धं च निर्धूमं संशुद्धं ताडनादिना ॥ ११० ॥
अर्घैर्निरम्बुकुसुमैः पूजयित्वा च भावयेत् ।
व्यस्तो गुणगणः षष्ठस्तेजो नाम गुणो हि यः ॥ १११ ॥
परस्य ब्रह्मणः सोऽयं सामान्यं सर्वतेजसाम् ।
ध्यात्वैवं नेत्रमन्त्रेण निक्षिपेत् कुण्डमध्यतः ॥ ११२ ॥
पावनैरिन्धनैः शुष्कैः कृत्वा निर्धूममेव तम् ।
समिद्भिरर्चयित्वाऽथ तन्मध्ये मन्त्रमण्डलम् ॥ ११३ ॥
ध्यात्वाऽभ्यर्च्य यथापूर्वं सन्तर्प्य सघृतैस्तिलैः ।
परिवारयुतं देवं सहस्रशतसंख्यया ॥ ११४ ॥
दद्यात् पूर्णाहुतिं सम्यग् होमसंख्यां निवेद्य च ।
वह्निसन्तर्पणक्रममाह—कुण्डमित्यारभ्य होमसंख्यां निवेद्य चेत्यन्तम् । सुलक्षणम्
= एकादशपरिच्छेदोक्तलक्षणान्वितमित्यर्थः । संस्कारैः = षष्ठपरिच्छेदोक्तैः, उप-
लेपनादिभिरित्यर्थः । पूजयित्वाऽर्घ्यपुष्पाद्यैरित्यत्रापि—"तदभ्यर्च्यर्घ्यपुष्पाद्यैर्ध्यायेत्
तद्ब्रह्मपीठवत्" (६।८३) इत्याद्युक्तप्रकारो ज्ञेयः । संशुद्धं ताडनादिनेत्यत्र—
सन्ताड्य चास्त्रमन्त्रेण प्रोक्षयेच्छिखया च तम् ॥
अर्चयेत् कवचेनैव कवचेनावकुण्ठ्य च ।