सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
पृष्ठ 418, कुल 837 में से
संदर्भ में पढ़ेंसप्तदशः परिच्छेदः ३५९
वमन्तमान्तरं वह्निं खरन्श्चैर्मारुतानुगैः ॥ ७६ ॥
प्रलयाम्बुदनिर्घोषमुद्गिरन्तं स्ववाचकम् ।
युगान्तहुतभुग्ज्वालामण्डलान्तर्व्यवस्थितम् ॥ ७७ ॥
षडस्रं चाप्यष्टबाहुं व्याप्य लोकान् स्थितं प्रभुम् ।
दिव्यगन्धानुलिप्ताङ्गं दिव्याम्बरधरं तथा ॥ ७८ ॥
दिव्यस्रग्वेष्टनोपेतं दिव्यालङ्कारमण्डितम् ।
कौस्तुभेनोरसिस्थेन श्रीवत्सेनाप्यलङ्कृतम् ॥ ७९ ॥
रत्नकाञ्चनसन्मुक्तायुक्तया वनमालया ।
सब्रह्मसूत्रया चैव शोभितं परमेश्वरम् ॥ ८० ॥
भुजान्यस्त्रवरैर्दीप्तैः कमलाद्यैर्युतानि च ।
क्षीरसागरवच्छुभ्रं ततः पद्मं तु दक्षिणे ॥ ८१ ॥
प्रणवध्वनिगर्भं तु हिमाद्रिशतशोऽधिकम् ।
वामे शङ्खवरं ध्यायेद् गदाखड्गौ ज्वलत्प्रभौ ॥ ८२ ॥
दक्षिणे पाणियुग्मेऽथ चक्रं कालानलद्युतिम् ।
सधनुर्वमहस्ताभ्यां ततः पाणिद्वयेन तु ॥ ८३ ॥
अविद्यादलिनीं मुद्रां कर्माख्यां संस्मरेत् प्रभोः ।
एवमेव हि हृन्मन्त्रं ध्यायेत् कुमुदपाण्डरम् ॥ ८४ ॥
पद्मरागाचलाकारमारक्तं च शिरः स्मरेत् ।
अञ्जनाश्मप्रतीकाशं शिखामन्त्रं तथाकृतिम् ॥ ८५ ॥
परितः सूर्यसन्तप्तं यथा कनकपर्वतम् ।
तथा कवचमन्त्रं च ध्यानकाले विचिन्त्य च ॥ ८६ ॥
वृतो ज्वालासहस्रैस्तु अयस्कान्तसमद्युतिः ।
सर्वास्त्रशक्तिसम्पूर्णश्चास्त्रमन्त्रः प्रकीर्तितः ॥ ८७ ॥
निर्धूमाङ्गारशिखरसदृशो नेत्रमन्त्रराट् ।
ध्येयाः स्वरुचिसंयुक्ता द्विभुजाः पुरुषोत्तमाः ॥ ८८ ॥
सास्त्राः कौस्तुभपूर्वा ये गदामालेङ्गनाकृतीः ।
फुल्लपद्मोदराभा श्रीर्नलिनीनालसंयुता ॥ ८९ ॥
चन्द्ररश्मिप्रतीकाशा श्वेतचामरधारिणी ।
पूर्णेन्दुसदृशी पुष्टिर्द्वहन्ती च पाणिना ॥ ९० ॥
सम्पूर्णममृतेनैव कलशं काञ्चनोत्थितम् ।
विज्ञानपुस्तककरा स्फटिकाभा सरस्वती ॥ ९१ ॥