सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
पृष्ठ 410, कुल 837 में से
संदर्भ में पढ़ेंसप्तदशः परिच्छेदः ३५१
तदाक्रम्याथ तस्यैव कार्या स्वहृदि कल्पना ॥ ३७ ॥
अथ मानसाराधनार्थं स्वहृदये प्रणवादिनमोऽन्तैश्चतुर्थ्यन्तैस्तत्तन्नामभिरनन्तादि-
वह्न्यन्तपीठपरिकल्पनं कार्यमित्याह—अथेति सार्धेन । पारमेश्वरे तु जयाख्योक्तरीत्या
“नाभिमेढ्रान्तरे ध्यायेत्” (ज०सं० १२।२, पा०सं० ५।५) इत्यादिभिर्हृदि
जाग्रदासनकल्पनमुक्तम् । अत्र तु स्वप्नासनस्योक्तत्वात् तत्रोक्तस्थानविभागोऽत्रापि
यथासंभवं बोध्यः । स्वप्नजाग्रदासनभेदस्तु परमेश्वर एवं दर्शितः—
स्वप्नः शेषादिपूर्वं तु वह्निपर्यन्तमासनम् ।
क्षीरार्णवादितो भावासनान्तं जाग्रदासनम् ॥ —(३।५७)
इति ॥ ३७ ॥
इस प्रकार मानसारोधन करे । फिर पूर्व में शेष उसके ऊपर अग्नि की
कल्पना कर आसन निर्माण करे । उस पर बैठे हुए इस प्रकार के आसन की हृदय
में कल्पना करे ॥ ३७ ॥
ब्रह्मस्वरूपममलं स्वचैतन्यं तदूर्ध्वतः ।
विकल्पोपरतं कृत्वा इच्छया तु विवर्तते ॥ ३८ ॥
परध्वनिस्वरूपेण तत्प्रकाशात्मना पुनः ।
व्यक्तिभावेन तच्चापि एवं प्रविलये सति ॥ ३९ ॥
विसर्जनं तु बोद्धव्यं सम्पन्ने तु क्रियाक्रमे ।
क्रम एष क्रमोक्तानां मन्त्राणामवतारणे ॥ ४० ॥
तदासनोर्ध्वे भगवदभिव्यक्तिक्रममाराधनानन्तरं विसर्जनक्रममाह—ब्रह्मस्वरूप-
मिति सार्धद्वाभ्याम् । विकल्पोपरतं = विशेषणरहितमित्यर्थः । केवलज्ञानस्वरूपमिति
यावत्,
ज्ञानेन्द्रियगणे चैव विकल्पं तनुते मनः ।
विकल्पो विविधः कॢप्तस्तच्च प्रोक्तं विशेषणम् ॥
धर्मेण सह सम्बन्धो धर्मिणश्च स उच्यते ।
विकल्पः पञ्चधा ज्ञेयो द्रव्यकर्मगुणादिभिः ॥ (५।६८-६९)
इति लक्ष्मीतन्त्रोक्तेः ।
विवर्तते पुनर्विशेषणसम्बन्धेन व्यक्तीभवतीत्यर्थः ॥ ३८-४० ॥
इस प्रकार के परिकल्पित आसन पर ज्ञान स्वरूप भगवान् की अभिव्यक्ति
क्रमपूर्वक आराधना करते हुए उनका विसर्जन कर देवे । क्रिया क्रम सम्पन्न हो
जाने पर विसर्जन करने की विधि के अनुसार विसर्जन करे । इस प्रकार क्रमपूर्वक
कहे गये सभी मन्त्रों के आराधन का क्रम कहा गया ॥ ३८-४० ॥
लाञ्छनादिक्रियाध्यानमेषां चैव हि कल्पना ।