सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
पृष्ठ 403, कुल 837 में से
संदर्भ में पढ़ें३४४ सात्वतसंहिता
नृसिंहबीजोद्धारकथनम्
वर्णचक्रं तु पूर्वोक्तं सुगुप्ते वसुधातले ॥ ४ ॥
उपलिप्ते तु संलिख्य पूजयित्वा यथाविधि ।
समुद्धरेत् ततो मन्त्रमनेकाद्भुतविक्रमम् ॥ ५ ॥
प्रणवं पूर्वमादाय तदन्ते विनियोज्य च ।
नवमं नाभिवर्णेभ्यस्तदूर्ध्वेऽराच्चतुर्दशम् ॥ ६ ॥
तस्योपरि तदन्तःस्थं वर्णं गोलकवन्न्यसेत् ।
नमोऽन्तं वर्णमेतद् वै वाचकं परमात्मनः ॥ ७ ॥
ज्ञानादयो गुणाः षड् वै प्रागुक्ता हृदयादयः ।
तदर्थमेव वर्णं तं षोढा संलिख्य केवलम् ॥ ८ ॥
द्वितीयतुर्यषष्ठैश्च द्वादशेनान्तिमेन च ।
चतुर्दशेनारात् वर्गात् क्रमाद् वै विनियोजयेत् ॥ ९ ॥
बीजवच्छिरसा सर्वान् लाञ्छयेत् पञ्चमं विना ।
सर्वेषां प्रणवः पूर्वः स्वसंज्ञान्ते नियोज्य च ॥ १० ॥
स्वकीया जातयश्चान्ते वौषदन्ताः क्रमेण तु ।
ॐ नमो भगवते नारसिंहायेत्यनेन तु ॥ ११ ॥
द्वादशाक्षरमन्त्रेण स्मृत्वा विग्रहवत् पुरा ।
सबाह्याभ्यन्तरस्थेन साङ्गेनाद्येन पूजयेत् ॥ १२ ॥
वर्णचक्ररचनापूर्वकं नृसिंहबीजोद्धारं तदङ्गमन्त्रप्रकारान् द्वादशाक्षरमन्त्रं चाह—
वर्णचक्रमित्यादिभिः । पूर्वोक्तं नवमपरिच्छेदोक्तमित्यर्थः । तदूर्ध्वं क्षकारोर्ध्वं अरा-
च्चतुर्दशम् औकारम्, तस्योपरि तदन्तःस्थमनुस्वारमित्यर्थः । तथा च-ॐ क्षौं नम इति
भवति । तं केवलं क्षकारमात्रमित्यर्थः । द्वितीयतुर्यषष्ठैः आकार-ईकार-ऊकारैः ।
द्वादशेन ऐकारेण । अन्तिमेन विसर्गेण । चतुर्दशेन (ओ?औ)कारेणेत्यर्थः । अरा-
द्वर्गादित्यस्य सर्वत्रान्वयः । शिरसा अनुस्वारेणेत्यर्थः । पञ्चमं विना विसर्गसहितं बीजं
विनेत्यर्थः । स्वकीया जातयो नमःस्वाहादिषड्जातयः । तथा च—ॐ क्षां ज्ञानाय
हृदयाय नमः । ॐ क्षीं ऐश्वर्याय शिरसे स्वाहा । ॐ क्षूं शक्त्यै शिखायै वौषट् । ॐ
क्षैं बलाय कवचाय हुं । ॐ क्षः वीर्याय अस्त्राय फट् । ॐ क्षौं तेजसे नेत्रत्रयाय वौषट्
इत्यङ्गमन्त्रा भवन्ति ॥ ४-१२ ॥
किसी विशुद्ध उपलिप्त एवं गुप्त वसुधातले में पूर्वोक्त वर्णचक्र की रचना
करे । यथाविधि उस स्थान की पूजा करे । तदनन्तर अनेक अद्भुत विक्रम वाले
इस नृसिंह मन्त्र का उद्धार लिखे ॥ ४-५ ॥
पहले प्रणव (ॐ) लिखे । उसके अन्त में क्षकार लिखे । उसके बाद अरा