सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
पृष्ठ 378, कुल 837 में से
संदर्भ में पढ़ेंचतुर्दशः परिच्छेदः
पवित्रारोपणविधिः
नारद उवाच
अखण्डनाय नित्यस्य तथा नैमित्तिकस्य च ।
कर्मणश्चोदयामास हली विष्णुं मुनीश्वराः ॥ १ ॥
अथ चतुर्दशः परिच्छेदो व्याख्यास्यते । इह नित्यनैमित्तिककर्मणामखण्डनावहं
कर्म सङ्कर्षणो वासुदेवं पृच्छतीत्याह—अखण्डनायेति ॥ १ ॥
नारद जी ने कहा—हे मुनीश्वरों ! अब इसके बाद सङ्कर्षण, भगवान् वासुदेव
से नित्य एवं नैमित्तिक कर्मों में जिस प्रकार किसी प्रकार बाधा न हो, वह
अखण्डित रहे, इस विषय में पूछते हैं ॥ १ ॥
सङ्कर्षण उवाच
यैराजीवावधिं कालं नित्यमाराधनं प्रति ।
धीः कृता पुण्डरीकाक्ष श्रद्धापूतेन चेतसा ॥ २ ॥
तेषामाकस्मिकाल्लोपाद् भोगानामप्यसम्भवात् ।
यः स्यात् तस्योपशमनं ज्ञातुमिच्छामि साम्प्रतम् ॥ ३ ॥
प्रश्नप्रकारमाह—यैरिति द्वाभ्याम् । तेषां भागवतानाम्, आकस्मिकाल्लोपाद्
अबुद्धिपूर्वकादाह्निकव्रतादिलोपादित्यर्थः । भोगानामसंभवाद् = औपचारिकादीनां
लोपादित्यर्थः । यः स्याद् = यो दोषः संभवेदित्यर्थः । तस्योपशमनं = ज्ञातुमिच्छा-
मीति प्रश्नः ॥ २-३ ॥
सङ्कर्षण ने कहा—हे भगवन् ! जिस प्रकार महाभागवतों की नित्य एवं
नैमित्तिक क्रिया का लोप न हो, अथवा भोगों के अभाव में या औपचारिकता के
अभाव से दोष न पड़े, उसके उपशमन का उपाय बताइये क्योंकि उस महाभागवत ने
आजीवन नित्य श्रद्धा युक्त चित्त से आप की आराधना की प्रतिज्ञा की है ॥ २-३ ॥
श्रीभगवानुवाच
लोभबुद्धिं विना यस्य भोगानामप्यसम्भवः ।