सामग्री पर जाएँ
सर्वकोश
सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)

सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)

Satvata Samhita of Pancharatra Agama with Commentary

भगवान् सङ्कर्षण / महर्षि नारद द्वारा

DevanagariHindipublished837 पृष्ठ

पृष्ठ 350, कुल 837 में से

संदर्भ में पढ़ें
पृष्ठ 350

द्वादशः परिच्छेदः २९१
दक्षिणेऽमृतकुम्भस्तु वामे तु विषमः फणी ॥ १८८ ॥
पञ्चमस्य द्वयं शेषं त्रयाणां च द्वयोः समम् ।
आधेयचरणाक्रान्तो यदि वै दक्षिणः करः ॥ १८९ ॥
सञ्चारो विहितो वामे त्वक्षसूत्रस्य वै तदा ।
आधेयचरणाधःस्थं यस्य पाणितलद्वयम् ॥ १९० ॥
निरस्तसूत्रं तं विद्धि वाहनं भगवन्मयम् ।
अथ प्रसक्तस्य वाहनस्य भेदान् तल्लक्षणं चाह—यदनुस्मरणादित्यादिभिर्भागव-
न्मयमित्यन्तैः । आ चा‌ङ्घ्रिगोचरात् चरणादारभ्य यस्य सर्वो देहः पौरुषः समस्तोऽपि
कायः पुरुषाकृतिरित्यर्थः । प्राणदैवतं प्राणाधिपतिरित्यर्थः । केकराक्षः केकरे वक्रे
अक्षिणी यस्य स तथोक्तः । "बलिरः केकरे" (२।६।४९) इत्यमरः । केकरपदेनैव
वक्राक्षत्वे सिद्धेऽप्यत्र पृथगक्षपदनिर्देशात् केकरशब्दस्य वक्रमात्रपरत्वं बोध्यम् ।
पारमेश्वरव्याख्याने तु—"केकराक्षो भगवद्ध्यानवशादर्धोन्मीलितलोचनः" इति
लिखितम्, तद्विचारणीयम् । शबलाभः = चित्रवर्णाभ इत्यर्थः । आद्यस्य सत्यस्य
सव्यः करो वामहस्तः । आधेयचरणाधस्थः आधेयस्य निजस्कन्धाधिरूढस्य भगवतः
पादपद्माधः स्थित इत्यर्थः । दक्षिणस्तु अक्षसूत्रेण भासितः । अत्र चकारद्वयेन
कदाचिद्वामहस्तस्याप्यक्षसूत्रभासितत्वम्, दक्षिणस्याप्याधेयचरणा(धः)स्थितत्वं च
संभवतीत्यर्थः सूच्यते—
आधेयचरणाक्रान्तो यदि वै दक्षिणः करः ।
सञ्चारो विहितो वामे त्वक्षसूत्रस्य वै तदा ॥
—(१२।१८९-१९०)
इत्युक्तेः । ननु—
स्वस्वाङ्गुष्ठद्वयप्रोतगणित्रोभयपाणिना ।
पुष्पाञ्जलिधराः सर्वे मुख्येन विहगोत्तमाः ॥
—(ई०सं० ८।४८, पा०सं० ८।४७-४८)
इतीश्वरपारमेश्वरोक्तेः करद्वयेऽप्यक्षसूत्रधारणं स्यात्, किन्तु दक्षिणहस्ते भग-
वच्चरणाक्रान्ते सति तदा वामहस्तस्थितस्याक्षसूत्रस्य सञ्चारो गणनार्थं सञ्चालनं
स्यादित्यर्थः सरस इति चेन्न,
आधेयचरणाधःस्थं यस्य पाणितलद्वयम् ।
निरस्तसूत्रं तं विद्धि वाहनं भगवन्मयम् ॥ —(१२।१९०-१९१)
इति वचनविरोधात् । भ(ग?) वदुक्तार्थे सिद्धे निरस्तसूत्रसञ्चारं तं विद्धीति वचनं
(कथं) प्रवर्तेत । स्वस्वाङ्गुष्ठद्वयप्रोतगणित्रोभयपाणिनेत्यत्रापि पुष्पाञ्जलिप्रकरणाद-
ङ्गुष्ठद्वयप्रोतमेकमेवाक्षसूत्रमिति ज्ञायते । यद्वा दक्षिणे वामे वाऽङ्गुष्ठेऽक्षसूत्रं धार्यमिति
ज्ञापनार्थमङ्गुष्ठद्वयमप्युक्तमिति ज्ञेयम् ।
सुपर्णस्य भुजद्वयं मुख्यहस्तद्वयमेवमेव सत्योक्तलक्षणमेवेत्यर्थः । अपरो वामः