सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
पृष्ठ 298, कुल 837 में से
संदर्भ में पढ़ेंदशमः परिच्छेदः २३९
द्विजातेर्दत्तशिष्टस्य पुष्पपत्रादिकस्य च ।
विहितश्चाम्भसि त्यागो विष्वक्सेनार्चने कृते ॥ ५७ ॥
कारिप्रदानाद्यवशिष्टनैवेद्यपत्रपुष्पफलादीनां विष्वक्सेनार्चनानन्तरं जलमध्ये
प्रक्षेपमाह—द्विजातेरिति ॥ ५७ ॥
काम करने वाले तथा द्विजातियों को देने से बचे हुए अन्न को विष्वक्सेन
की पूजा के अनन्तर जल में फेंक देवे ॥ ५७ ॥
धर्तव्यं न चिरं चाग्रे यत्पुरा विनिवेदितम् ।
नैवेद्यं मन्त्रमूर्तीनां किञ्चित् पुष्पफलादृते ॥ ५८ ॥
॥ इति श्रीपाञ्चरात्रे श्रीसात्वतसंहितायां विभवदेवतार्चन नाम
दशमः परिच्छेदः ॥ १० ॥
— ❦ ❁ ❧ —
तत्र हेतुमाह—धर्तव्यमिति । यद्यस्मात् कारणात् पुरा निवेदितं मन्त्रमूर्तीनां नैवेद्यं
भगवन्निवेदितहविरादिकं किञ्चित् पुष्पफलादृते स्वप्राशनोपयुक्तं किञ्चिद् भागं विनाऽ-
न्यत् सर्वं चिरं बहुकालं न धार्यम् । शीघ्रं जलमध्ये प्रक्षेप्तव्यमित्यर्थः । इममेवार्थं
सुस्पष्टं वक्ष्यति सप्तदशे परिच्छेदे च—
ततो विसर्जनं कुर्यादुपसंहृत्य चाखिलम् ।
विनिक्षिप्याम्भसो मध्ये पत्रपुष्पफलादि यत् ॥
निष्कामः पावनार्थं तु स्तोकमुद्धृत्य वै पुरा ।
संधार्य मन्त्रपूतं प्राक् तमश्नीयाच्च मौनवान् ॥
—(१७।१४५-१४६) इति ।
ननु स्तोकमुद्धृत्य वै पुरेत्यत्र किं विष्वक्सेनार्चनात् पूर्वमेव स्तोकोद्धरणम्,
अथवा तदर्चनान्तरं जलप्रक्षेपात् पू(र्वं वेत्या?र्वमित्या)काङ्क्षायां तत्पक्षद्वयमप्युपपन्न-
मिति ज्ञेयम् । यतः पारमेश्वरे—
स्वप्राशनार्थमेकांशं स्थापयित्वा निरीक्षितम् ।
शेषाशनाभिधानस्य गणेशस्यार्चनाय वै ।
भागमेकं तु संस्थाप्य भागेनान्येन तोषयेत् ।
ब्राह्मणादीन् शुभाचारान् भक्तान् ग्रामाधिवासिनः ॥
इति विष्वक्सेनार्चनात् पूर्वमेव स्वप्राशनार्थभागोद्धरणमुक्तम् । तत्रैव महाहविः
प्रकरणे तु—