सामग्री पर जाएँ
सर्वकोश
सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)

सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)

Satvata Samhita of Pancharatra Agama with Commentary

भगवान् सङ्कर्षण / महर्षि नारद द्वारा

DevanagariHindipublished837 पृष्ठ

पृष्ठ 295, कुल 837 में से

संदर्भ में पढ़ें
पृष्ठ 295

२३६ सात्वतसंहिता
तत्तत्स्थानोचितार्चनद्रव्यभेदानाह—सजलेति सार्धेन । एवं सजलाञ्जलिभि-
स्तीर्थमध्ये भगवदर्चनं जयाख्येऽपि विशदमुपपादितम्—
आधारमासनं ध्यात्वा जलमध्येऽच्युतस्य च ।
मन्त्रग्रामसमोपेतमाहूय विनिवेश्य तम् ॥
तर्पयेदुदकेनैवं विष्वक्सेनावसानकम् ।
स्वेन स्वेन तु मन्त्रेण पाणिभ्यामग्रतः क्रमात् ॥ (९।५५-५६)
इत्यादिभिः । एवं पारमेश्वरेऽपि करशुद्धिसमोपेतमित्यादिभिरष्टभिः श्लोकै-
र्जलमध्यार्चनक्रमो विस्तरेणोक्तः । वस्तुतस्तु पारमेश्वरोक्तरीत्या जलमध्येऽर्चनात्
पूर्वमेव करशुद्धिप्राणायामभूतशुद्धिमन्त्रन्यासभगवत्तादात्म्यावलम्बनानुष्ठानमुचितम् ।
बिम्बार्चनप्रकरणे मानसार्चनात् पूर्वं तदनुष्ठानोक्तिस्त्वौदकस्नानाद्यशक्त्या तीर्थमध्ये
भगवदर्चनमकृतवद्विषयेति बोध्यम् ।
ननु “नित्यमस्मिंश्चतुष्टये । मन्त्राणामर्चनं कुर्यात्” (१०।४५) इत्युक्त्या
जलमध्येऽर्चनं कृतवतैव मानसार्चनादिकं कार्यमिति चेन्न,
यावज्जीवं यथाशक्ति संस्थितो यत्र कुत्रचित् ।
स्थानेषु हृदयाद्येषु कुर्यान्मन्त्रगणार्चनम् ॥
द्रव्यैः पुष्पाम्बुपूर्वैस्तु तदभावात् तु वै हृदि ।
मानसीं पूर्ववत् पूजां निर्वपेन्न्यासपूर्विकाम् ॥ (१७।१२६-१२७)
इत्यशक्तानां हृदयादिस्थानेष्वन्यतममात्रार्चनस्यापि वक्ष्यमाणत्वात् । किञ्च,
पारमेश्वरे तीर्थमध्यार्चनं मानसार्चनं च होमान्तमुक्तम् । सात्वतनिष्ठैस्तु जपयज्ञान्तमेव
कार्यम् । यतोऽत्र सप्तदशे परिच्छेदे—
ध्यात्वाऽथ भावनाजातैर्भोगैः परमपावनैः ॥
पूजयित्वा जपान्तं चाप्यवतार्य बहिर्यजेत् । (१७।४२-४३)
इति जपान्तमेव वक्ष्यति ॥ ४६-४७ ॥
तीर्थ और हृत्कमल में पूर्ण जलाञ्जलि द्वारा अर्चन करे और भावनामृत से
उत्पन्न भोगों से अथवा मूर्ति एवं अर्घ्यादिकों से बाहर अर्चना करे ॥ ४६-४७ ॥
पूजयित्वा यथान्यायं प्रत्येकस्मिन् पदे क्रमात् ॥ ४७ ॥
संन्यासं सञ्चयं वापि कृत्वा सम्यक् कृतस्य वै ।
मन्त्ररूपानुकारिण्या मुद्रणीयं च मुद्रया ॥ ४८ ॥
एवं तीर्थमध्यादिपदेषु क्रमेण भगवन्तमभ्यर्च्य तत्तदर्चनानन्तरं निष्कामश्चेत्
कृतस्य कर्मणः परित्यागं कुर्यात्, सकामश्चेत् तदार्चनं कुर्यात् । उभयत्रापि पूर्वोक्त-
मुद्राबन्धं कुर्यादित्याह—पूजयित्वेति सार्धेन ।
ननु फलान्तरसम्पादककर्मणां निष्कामत्याज्यत्वमुचितम्, प्राधान्येन मोक्ष-
सम्पादकभगवदाराधनकर्मणोऽपि त्याज्यत्वं कथमुक्तमिति चेन्न, सिद्धोपायनिष्ठै-
र्भगवदाराधनकर्मणोऽपि स्वयं प्रयोजनतयाऽनुष्ठेयत्वात् ॥ ४७-४८ ॥