सामग्री पर जाएँ
सर्वकोश
सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)

सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)

Satvata Samhita of Pancharatra Agama with Commentary

भगवान् सङ्कर्षण / महर्षि नारद द्वारा

DevanagariHindipublished837 पृष्ठ

पृष्ठ 291, कुल 837 में से

संदर्भ में पढ़ें
पृष्ठ 291

चन्द्रादित्यावुदग्याम्ये द्वारयोर्विनिवेश्य च ।
प्रत्यग्द्वारगतं तोयं प्राग्द्वारे विन्यसेद् धराम् ॥ २२ ॥
चतुर्णामिथ कोणानामव्यक्तं मण्डलाद् बहिः ।
संयजेद् भवनाम्ना वै यस्मान्नान्यो भवः स्मृतः ॥ २३ ॥
ततः कामात्मतत्त्वानां दशकं सिद्धतां गतम् ।
भगवत्तुल्यसामर्थ्यं सर्वज्ञादिगुणैर्युतम् ॥ २४ ॥
वियुक्तं प्राकृताद् दुःखान्नियुक्तं चेश्वरेणतु ।
भवसन्तारकत्वेन मण्डलस्य बहिर्न्यसेत् ॥ २५ ॥
उपेन्द्रः पूर्वदिग्भागे दक्षिणे दुरतिक्रमः ।
महाह्रदः पश्चिमे तु वसुरेतास्तथोत्तरे ॥ २६ ॥
न्यस्यस्तेजो धराख्यस्तु पूर्वदक्षिणमध्यगः ।
नैर्ऋते तु महाकर्मा त्वग्राह्यः पश्चिमोत्तरे ॥ २७ ॥
पूर्वोत्तरे वर्धमानः साक्षी गगनगोचरे ।
आधारनिलयं नाम्ना सर्वस्याधोगतं स्मरेत् ॥ २८ ॥
तेषां बहिः स्वमन्त्रेण दिक्क्रमेण तु हेतिराट् ।
स्वमरीचिगणेनैव भासयन्तं निवेश्य च ॥ २९ ॥
मण्डले ध्रुवादीनां स्थानान्याह—ध्रुवात्मेति प्रक्रम्य भासयन्तं निवेश्य चेत्यन्तम् ।
तथा च प्रयोगः—कर्णिकामध्ये ध्रुवं प्रागादिषट्त्रिंशद्दलेषु दिङ्‌मण्डलमभिवी-
क्षतोऽनन्तादीन् पातालशयनान्तान् षट्त्रिंशद् देवान् तद्बहिरैशान्यादिवायव्यान्तकोण-
चतुष्टये किरीटश्रीवत्सकौस्तुभवनमालाः, ततः पीठे उत्तरदिशि लक्ष्मीम्, दक्षिणदिशि
पुष्टिम्, पश्चिमदिशि दयाम्, पूर्वदिशि निद्राम्, ईशानकोणे क्षमां क्षान्तिं च, आग्नेय-
कोणे सरस्वतीं धृतिं च, नैर्ऋतकोणे मैत्रीं रतिं च, वायव्यकोणे तुष्टिं मतिं च, तद्बहिः
पीठसमीपे पुरतो गरुडम्, पीठाद् बहिरैशान्यादिवायव्यान्तकोणचतुष्टये क्रमेण चक्र-
शङ्खगदापद्मानि, सौम्यदिशि पाशम्, याम्यदिश्यङ्कुशम्, वारुणदिशि मुद्गरम्, पूर्व-
दिशि वज्रम्, कोणचतुष्टये शक्तिम्, ईशानकोणसमीपस्थपदादारभ्य तत्समीपस्थ-
द्वितीयपदपर्यन्तमर्धशोभापूर्णशोभास्थितनीलोत्पलरक्तोत्पलाख्यषोडशपदेषु प्रादिक्षिण्येन
कालादियज्ञान्तं भवोपहरणदेवताषोडशकम्, ईशानकोणे विद्याम्, नैर्ऋत-
कोणेऽविद्याम्, अग्निकोणेऽग्निम्, वायुकोणे वायुम्, उत्तरद्वारे चन्द्रम्, दक्षिणद्वारे
सूर्यम्, पश्चिमद्वारे तोयम्, पूर्वद्वारे वसुधां च, मण्डलाद् बहिः कोणेषु प्रकृतिम्, तद्बहिः
पूर्वादिदिक्षु विदिक्षु ऊर्ध्वमधश्च उपेन्द्रादिसिद्धदशकं च, तद्बहिः सर्वदिक्षु चक्रराजं च
न्यसेत् ॥ ११-२९ ॥
मण्डल में ध्रुवादि का स्थान कहते हैं—कर्णिका मध्य में ध्रुव का, पूर्वादि
छत्तीस कमल दलों में दिङ् मण्डल की ओर देखते हुए अनन्त से लेकर