सामग्री पर जाएँ
सर्वकोश
सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)

सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)

Satvata Samhita of Pancharatra Agama with Commentary

भगवान् सङ्कर्षण / महर्षि नारद द्वारा

DevanagariHindipublished837 पृष्ठ

पृष्ठ 282, कुल 837 में से

संदर्भ में पढ़ें
पृष्ठ 282

नवमः परिच्छेदः २२३

द्वादशक, कूर्मादि द्वादशक, मीनादि द्वादशक देवों का एक-एक का अलग से
न्यास कर अर्चना करे ॥ ११२-११३ ॥
प्रतिद्वादशकस्याद्यं प्रगुक्तेन क्रमेण यत् ।
तन्निष्कलात्मना पूर्वमिष्ट्वा वै कर्णिकोदरे ॥ ११४ ॥
समुत्थाप्य ततो मध्यात् तमेव सकलात्मना ।
न्यसेदाधारभूतं च सर्वत्र कमलादधः ॥ ११५ ॥
तमेवार्घ्यादिनाऽभ्यर्च्य कमलच्छदकोटिगम् ।
द्वितीयं कर्णिकामध्ये तदग्रे केसरोर्ध्वगम् ॥ ११६ ॥
ध्यात्वा न्यस्य तृतीयं तु ततः पत्राष्टकेऽष्टकम् ।
द्वादशाख्यं हि सर्वत्र गगने पद्मनाभवत् ॥ ११७ ॥
भवोपकरणीयाभिर्देवताभिः समावृतम् ।
यस्त्वङ्गदेवतासंघः सर्वः स कमलाद् बहिः ॥ ११८ ॥
न्यस्यैवमर्चनं कुर्याद् दिव्यैर्भोगैस्तु पूर्ववत् ।
प्रत्येकार्चनप्रकारमाह—प्रतिद्वादशकस्येत्यारभ्य दिव्यैर्भोगैस्तु पूर्ववदित्यन्तम् ।
प्रतिद्वादशकस्याद्यं यद् अनन्तः कूर्मो मीनश्चेत्यर्थः । द्वितीयं शक्त्यात्मानं वराहं वामनं
चेत्यर्थः । तृतीयं मधुसूदनं नारसिंहं त्रिविक्रमं चेत्यर्थः । अष्टकं विद्यादेवाष्टकं श्री-
पत्याद्यष्टकं नराद्यष्टकं चेत्यर्थः । द्वादशाख्यम् एकार्णवशायिनं न्यग्रोधशायिनं पाताल-
शायिनं चेत्यर्थः ।
तथा च प्रयोगः—अनन्तादिद्वादशकार्चनप्रकरणे प्रथममनन्तं स्वहृदयकमल-
कर्णिकामध्ये निराकारं ध्यात्वाऽभ्यर्च्य, पुनस्तमेव तस्मात् स्थानादुत्थाप्य, हृदय-
कमलाधस्ताद् आधारभूतं साकारं ध्यात्वाऽभ्यर्च्य, तमेव हृत्कमलदलाग्रेऽप्यभ्यर्च्य,
कर्णिकामध्ये शक्त्यात्मानं तत्पुरतः केसरस्थाने मधुसूदनं दलाष्टके विद्याधिदेवाद्यष्टकं
चाभ्यर्च्य, नादावसानगगने पद्मनाभवत् साकारं निराकारं चैकार्णवशायिनं ध्यात्वाऽ-
भ्यर्च्य, लक्ष्म्यादिशक्तिकिरीटादिभूषणचक्रादिलाञ्छनानि कालादिभवोपकरणदेवताश्च
कमलाद् बहिरभ्यर्चयेत् । कूर्मादिद्वादशकार्चनप्रकरणे त्वनन्तस्थाने कूर्मम्, शक्त्या-
त्मस्थाने वराहम्, मधुसूदनस्थाने नृसिंहम्, विद्याधिदेवाद्यष्टकस्थाने श्रीपत्याद्यष्टकम्,
एकार्णवशायिस्थाने न्यग्रोधशायिनं चार्चयेत् । मीनादिद्वादशकार्चनप्रकरणे तु कूर्म-
स्थाने मीनम्, वराहस्थाने वामनम्, नृसिंहस्थाने त्रिविक्रमम्, श्रीपत्याद्यष्टकस्थाने नरा-
द्यष्टकम्, न्यग्रोधशायिस्थाने पातालशायिनं चार्चयेत् ॥ ११४-११९ ॥
प्रत्येक का अर्चन कहते हैं—प्रथम द्वादशक के—आद्य, अनन्त, कूर्म एवं
मीन, द्वितीय—शक्त्यात्मा, वराह एवं वामन, तृतीय द्वादशक—मधुसूदन, नारसिंह
एवं त्रिविक्रम, अष्टक—विद्यादेवाष्टक, श्रीपत्याद्यष्टक एवं नराष्टक, द्वादशाख्य—
एकार्णवशायी, न्यग्रोधशायी एवं पातालशायी, प्रयोग—अनन्तादिद्वादशकार्चन