सामग्री पर जाएँ
सर्वकोश
सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)

सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)

Satvata Samhita of Pancharatra Agama with Commentary

भगवान् सङ्कर्षण / महर्षि नारद द्वारा

DevanagariHindipublished837 पृष्ठ

पृष्ठ 277, कुल 837 में से

संदर्भ में पढ़ें
पृष्ठ 277

२१८ सात्वतसंहिता
प्रधानभूतांश्छारीरानलङ्कारान्निबोध मे ।
किरीटः कौस्तुभो भाढ्यः श्रीवत्सोऽमृतलक्षणः ॥ ८६ ॥
वनमालेति गरुडः प्रधानान् हेतिकान् शृणु ।
चक्रं शङ्खो गदा पद्मं लाङ्गलं मुसलं शरः ॥ ८७ ॥
शार्ङ्गं च खड्गखेटौ तु दण्डः परशुरीतिहा ।
पाशाङ्कुशौ मुद्गरश्च वज्रः शक्तिसमन्वितः ॥ ८८ ॥
इत्येतद् देवताचक्रमङ्गमन्त्रगणान्वितम् ।
विग्रहे देवदेवस्य संलीनमवतिष्ठते ॥ ८९ ॥
अथ किरीटादिभूषणप्रधानचतुष्टयं वाहनं चक्रादिसप्तदशप्रधानायुधानि चोक्त्वा
एषामङ्गमन्त्रैः सह भगवद्विग्रहे संलीनत्वमाह—प्रधानभूता इति चतुर्भिः । ईतिहन्तेति
ईतिहेति परशोर्विशेषणम् । अत्र विशेष्यभ्रान्त्या पारमेश्वरव्याख्यातृभिर्विमानदेवता-
कथनप्रकरणे चक्रादिशक्त्यन्ताष्टायुधन्यास इत्युक्तम्, सहस्त्रकलशाभिषेक-
प्रकरणेऽपि—
चक्रादिवज्रपर्यन्तमस्त्रषोडशकं यजेत् ॥
कोणस्थेषु चतुष्केषु न्यसेच्छक्तिं ततः परम् । (१४।४४७-४४८)
इति श्लोकव्याख्यावसरे पूर्वोक्तभ्रान्तिजल्पितस्य दृढीकरणार्थं चक्रादिवज्र-
पर्यन्तमित्यत्रातद्गुणसंविज्ञानो बहुव्रीहिरिति चोक्तम् ॥ ८६-८९ ॥
अब इनके प्रधान शारीरिक अलङ्कारों को सुनिए—देदीप्यमान किरीट,
कौस्तुभ, अमृत लक्षण श्रीवत्स और वनमाला इनके ये चार अलङ्कार हैं । गरुड़
वाहन हैं । अब इनके प्रधान शस्त्रों को सुनिए । चक्र, शङ्ख, गदा, पद्म, लाङ्गल,
मुसल, द्वार, शार्ङ्ग, खड्ग, खेटक, दण्ड, ईतियों को नष्ट करने वाला परशु,
पाश, अङ्कुश, मुद्गर, वज्र शक्ति, अङ्ग मन्त्र गणान्वित, इतने देवता चक्रादि
देवाधिदेव विष्णु के विग्रह में लीन होकर स्थित रहते हैं ॥ ८६-८९ ॥
देवतावर्गकथनम्
वक्ष्ये भवोपकरणं गीर्वाणगणमुत्तमम् ।
नानाविभवमूर्तीनां योऽवतिष्ठेत शासने ॥ ९० ॥
कालो वियन्नियन्ता च शास्त्रं नानाङ्गलक्षणम् ।
विद्याधिपतयश्चैव सरुद्रः सगणः शिवः ॥ ९१ ॥
प्रजापतिसमूहश्च इन्द्रः सपरिवारकः ।
मुनयः सप्त पूर्वेऽन्ये ग्रहास्तारादिकैर्वृताः ॥ ९२ ॥
जीमूताश्चाखिला नागास्त्वप्सरोगण उत्तमः ।