सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
पृष्ठ 259, कुल 837 में से
संदर्भ में पढ़ें२०० सात्वतसंहिता
ककारादिव्यञ्जनस्यापि बिन्दुसहितत्वेनैव मन्त्रत्वमाह—स्वरेणेति ॥ २०-२१ ॥
अनुस्वार सहित एक स्वर से युक्त व्यञ्जन अथवा अनुस्वार सहित दो स्वर
से युक्त ककारादि व्यञ्जन की भी बीज संज्ञा होती है ॥ २१ ॥
य ओंकाराख्यशब्दस्य विवर्तो दीधितिप्रभः ॥ २१ ॥
चिल्लक्षणस्त्वनाकारो विद्धि तद्वाचकं त्रिधा ।
क्वचित् पिण्डं क्वचिद्बीजं क्वचिच्छब्दमनाहतम् ॥ २२ ॥
तस्य चोद्गीर्यमाणस्य परिणामः स्फुटो हि यः ।
बह्वक्षरो बहुपदः स्तुतिसम्बोधलक्षणः ॥ २३ ॥
बीजपिण्डसंज्ञापदमन्त्राश्चत्वारोऽपि प्रणवस्य परिणामाः । तत्राद्यास्त्रयः सूक्ष्म-
परिणामाः, अन्त्यः स्थूलपरिणाम इत्याह—य ओंकाराख्यशब्दस्येति सार्द्धद्वाभ्याम् ।
आकारभेद इति यावत्, दीधितिप्रभः केवलतेजोरूप इत्यर्थः । चिल्लक्षणः =
चिद्रूपः । अनाकारो गुणलक्ष्य इत्यर्थः । एवमेवोपबृंहितं लक्ष्मीतन्त्रेऽपि—
शब्दब्रह्मविवर्तोऽयं किरणायुतसंकुलः ॥
चिल्लक्षणः सद्गुणात्मा तस्य भेदश्चतुर्विधः ।
क्वचिद्बीजं क्वचित्पिण्डं क्वचित्संज्ञा क्वचित्पदम् ॥
तुर्यं सुषुप्तिः स्वप्नं च जाग्रद्व्यूहादयः क्रमात् ॥ (२१।९-११)
एवं च मन्त्रप्रतिपाद्यस्य भगवतः पूर्वं परसूक्ष्म(स्य?)स्थूलभेदेन त्रैविध्यम्, तत्र
सूक्ष्मस्य तुर्यसुषुप्तिस्वप्नभेदेन त्रैविध्यं च यथा प्रतिपादितम्, तद्वदिहापि प्रणवस्य
परत्वम्, बीजपिण्डसंज्ञामन्त्राणां तुर्यसुषुप्तिस्वप्नक्रमेण सूक्ष्मत्वम्, पदमन्त्रस्य स्थूलत्वं
चोक्तं भवतीति ज्ञेयम् ॥ २१-२३ ॥
ॐकार शब्द का विवर्त्त सूर्य की किरणों के समान अनेक है अर्थात् ओंकार
पर है तथा बीज, पिण्ड एवं संज्ञा मन्त्र क्रमशः तुर्य, सुषुप्ति और स्वप्न के क्रम
से सूक्ष्म है । पदमन्त्र वैखरी होने से स्थूल है ॥ २१-२२ ॥
उसी ॐकार के उच्चारण करने से परिणाम स्पष्ट जाना जाता है । वह
कभी स्तुति सम्बोधन लक्षण वाला तथा बहुत अक्षरों वाला होता है और कहीं
बहुत पदों वाला बन जाता है ॥ २३ ॥
अविनाशी स ओंकारो बीजादीनां महर्द्धिदः ।
प्राग् दद्यात् प्रणवेनातः सत्याख्येनासनं महत् ॥ २४ ॥
तस्माद् वै सत्यभिन्नं तु बीजं तदुपरि न्यसेत् ।
स्वविवर्तेन बीजस्य मूर्त्युत्थानं प्रकल्पयेत् ॥ २५ ॥
प्राप्तेज्यावसरे नित्यं सम्पन्ने यजने सति ।
तप्तोपले जलं यद्वत् तद्वत् विप्रलयं स्मरेत् ॥ २६ ॥