सामग्री पर जाएँ
सर्वकोश
सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)

सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)

Satvata Samhita of Pancharatra Agama with Commentary

भगवान् सङ्कर्षण / महर्षि नारद द्वारा

DevanagariHindipublished837 पृष्ठ

पृष्ठ 255, कुल 837 में से

संदर्भ में पढ़ें
पृष्ठ 255

१९६ सात्वतसंहिता
य उक्तस्ते मया पूर्वमेकैकं विद्धि तन्त्रिधा ॥ ४ ॥
चतुर्णां युगसन्धीनां युगानां च तथैव हि ।
विश्वविप्लवदोषाणां विनाशाय समुद्यतम् ॥ ५ ॥
सितरक्तादिरूपेण ज्वलदस्त्रकराङ्कितम् ।
कार्यारम्भे तथा मध्ये ह्यवसाने तु सर्वदा ॥ ६ ॥
सन्धत्ते रूपमात्मीयमेक एव त्वनेकधा ।
श्रेयसे सर्वलोकानां स्थूलं तत् कामरूपधृक् ॥ ७ ॥
अनुद्यतेन वपुषा कुन्देन्दुधवलेन च ।
वीरासनादिना चैव स्थितं मुदितमानसम् ॥ ८ ॥
लीलाविधृतसर्वास्त्रं सौम्यवक्त्रमनाकुलम् ।
धिया दोषगणं सर्वं ध्वंसयन्तं च मोक्षिणाम् ॥ ९ ॥
तद्व्यक्तं शान्तसंज्ञं च रूपं रूपवतांवरम् ।
प्रकाशयति सन्मार्गं समाधिनिरतात्मनाम् ॥ १० ॥
तेजोमयं यत् तद्रूपं वैभवं शान्तसंज्ञकम् ।
उपासकानां भक्तानां सर्वे सर्वफलप्रदाः ॥ ११ ॥
एवं पृष्टो भगवान् स्थूलसूक्ष्मपरत्वभेदेन विभवावतारस्य त्रैविध्यमाह—वैभवीय
इत्यारभ्य आमोक्षात्रिर्विचारेणेत्यन्तम् । अत्र युगानां युगसन्धीनामिति षष्ठ्या अधिक-
रणत्वमर्थः । विश्वविप्लवदोषाणां विनाशाय समुद्यतम् । युगेषु तत्सन्धिकालॆषु च ये
ये दोषाः संभवन्ति, तेषां प्रशमायाविर्भूतमित्यर्थः । अनेन—
परित्राणाय साधूनां विनाशाय च दुष्कृताम् ।
धर्मसंस्थापनार्थाय संभवामि युगे युगे ॥ — (गी० ४।८)
इत्यर्थः स्मारितो भवति । सितरक्तादिरूपेण तत्तद्युगानुकारिवर्णभेदेनेत्यर्थः ।
तथा च श्रीभागवते—
आसन् वर्णास्त्रयो ह्यस्य गृह्णतोऽनुयुगं तनूः ।
शुक्लो रक्तस्तथा पीत इदानीं कृष्णतां गतः ॥ इति ।
—(श्रीमद्भा० १०।८।१३)
कार्यारम्भे मध्येऽवसाने च सृष्टिस्थितिसंहारकालेष्वित्यर्थः । एक एवानेकधा
रूपं सन्धत्ते । सृष्टिकाले रक्तं रूपम्, रक्षणकाले शुक्लं रूपम्, संहारकाले कृष्णं रूपं
बिभर्तीत्यर्थः । स्थूलं जाग्रत्पदस्थितमित्यर्थः । कामरूपधृक् = स्वेच्छया नाना-
रूपधरमित्यर्थः । 'तद्व्यक्तं शान्तसंज्ञं च रूपम्' इत्यत्र व्यक्तमित्यनेन स्वप्नसुषुप्ति-
पदाश्रितत्वम्, शान्तसंज्ञमित्यनेन तुर्यपदाश्रितत्वं चोच्यते । यतो लक्ष्मीतन्त्रे—
त्रिविधं चातुरात्म्यं तु सुषुप्यादिपदत्रिके ।