सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
पृष्ठ 191, कुल 837 में से
संदर्भ में पढ़ें१३२ सात्वतसंहिता
तत्प्रभावाच्च तेनैव तथा कालेन जायते ।
अनेन क्रमयोगेन जपवृद्ध्याऽन्वितेन तु ॥ २१० ॥
निखिलं चाप्यधीकुर्याद् मन्त्रवृन्दं पुरोदितम् ।
यावदाभाति भगवान् स्थाने पूर्वोक्तलक्षणे ॥ २११ ॥
प्रलीनमूर्तिरमलो ह्यनन्ततेजसां निधिः ।
चिदानन्दघनः शान्तो ह्यनौपम्यो ह्यनाकुलः ॥ २१२ ॥
समाधायात्मनात्मानं तत्र त्यक्त्वा जपक्रियाम् ।
ध्यातृध्येयाविभागेन यावत् तन्मयतां व्रजेत् ॥ २१३ ॥
यदा संवेद्यनिर्मुक्ते समाधौ लभते स्थितिम् ।
अभ्यासाद् भगवद्योगी ब्रह्म सम्पद्यते तदा ॥ २१४ ॥
विस्तरेण योगप्रकारमाह—मध्याह्नभास्कराकारैरित्यारभ्य ब्रह्म सम्पद्यते तदित्य-
न्तम् । अस्यार्थः—स्वहृदयकमलं तत्तत्पदभेदेन चातुरात्म्यैरधिष्ठितं स्मृत्वा जाग्रत्पद-
स्थेनानिरुद्धेन सह आत्मानमेकीभूतं ध्यायन् प्रत्यहं तन्मन्त्रं शतवारं जपेत् । एवं
तन्मन्त्रजपसामर्थ्याच्च तदीयं ज्ञानं माहात्म्यं च स्वस्यापि संभवति । एवमेकं संवत्सरं
योगाभ्यासे कृतेऽनिरुद्धतादात्म्यसमन्वितो भवति । तदनन्तरमनिरुद्धं मन्त्रेण सह प्रद्युम्ने
संहृत्य प्रद्युम्नोऽहमिति तादात्म्यभावनां कुर्वन् प्रत्यहं तन्मन्त्रं शतद्वयं जपन् पुनरेकं
संवत्सरं नयेत् । एतेन प्रद्युम्नप्रभावो भवति । एवंरीत्या सङ्कर्षणमन्त्रं वासुदेवमन्त्रं
स्वप्नव्यूहानिरुद्धादिवासुदेवान्तमन्त्रचतुष्टयं तथा सुषुप्तिव्यूहचतुष्टयं च प्रत्येकमेकैकं
संवत्सरं जपवृद्धिक्रमेण तत्तादात्म्यभावनया सहाऽभ्यसन् तत्तन्मन्त्रं तदुत्तरमन्त्रे
उपसंहरन् सुषुप्तिव्यूहवासुदेवमपि पूर्वोक्तलक्षणतुर्यस्थाने स्थिते परात्परवासुदेवे
उपसंहरन् तत्तादात्म्यभावनया तन्मन्त्रं ध्यातृध्येयाविभागेन यावत्तन्मयत्वं व्रजेत् तावदन्तं
ततो जपक्रियां त्यजेत् । एवमभ्यासाद् भगवद्यो(गि?गी) वेद्यवेदकभावरहिते समाधौ
यदा स्थितिं लभते, तदा ब्रह्म सम्पद्यते । ब्रह्मैव भवतीत्यर्थः । परमसाम्यं भजतीति
यावत् । यत्र यत्र योऽयं सोऽहमित्येवंरीत्या तत्तद्व्यूहतादात्म्याश्रयणमप्युक्तम्, तेन
स्वस्य तदद्वैतसिद्धिश्च प्रतिपादिता । अत्र सर्वनामस्वरूपैक्यं चिन्तनीयम् । यतः—
योऽन्यथा सन्तमात्मानमन्यथा प्रतिपद्यते ।
किं न तेन कृतं पापं चौरेणात्माहारिणा ॥
इत्यन्यथा ज्ञानेन फलवैपरीत्यमुक्तम् । अपि तु तत्र सर्वप्रकारैक्यं बोध्यम्, यतः
प्रकारैक्ये चास्ति तत्त्वव्यवहारः—सोऽयं गौरिति ।
ननु ‘सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्’ (छा० उ० ६।२।१), ‘तत्त्वमसि’
(छा० उ० ६।८।७) इत्यादिश्रुतिशतसिद्धं स्वरूपैक्यमपलपतां युष्माकमेवान्यथा
ज्ञानमिति चेत्, ब्रूमः—किमिदानीमस्माभिस्तत्त्वनिर्णयः क्रियते? श्रीमद्भाष्यकार-
प्रभृतिभिर्निर्णीते विषये किमावयोर्विवादेन । नन्वत्र समाधायात्मनात्मानं सह मन्त्रैस्ततः
क्रमादिति, तदभिन्नेन चात्मनेति, तदद्वैतसमन्वितमिति, योऽयं सोऽहमनेनैवाप्यद्वैतेन