सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
पृष्ठ 181, कुल 837 में से
संदर्भ में पढ़ें१२२ सात्वतसंहिता
अनुयागविधिकथनम्
पश्चाच्छरीरयात्रार्थमभ्यर्थ्य परमेश्वरम् ।
लब्धानुज्ञस्तु वै कुर्यादात्मयागं यथाविधि ॥ १८१ ॥
भोज्यं नैवेद्यपूर्वं तु सर्वमादाय पात्रगम् ।
विनिवेद्य च देवाय पवित्रीकृत्य चाम्भसा ॥ १८२ ॥
सत्यरूपा ह्यलक्ष्या चाप्यन्नदोषक्षयङ्करी ।
चेतसा चातुरात्मीया भावनीया च भावना ॥ १८३ ॥
रसात्माऽध्यक्षसंज्ञोऽन्ने स्वादुभावे व्यवस्थितः ।
प्रद्युम्नो भगवान् रूपे चैतद्वीर्ये तु लाङ्गलीन् ॥ १८४ ॥
भोक्ता महात्मा भगवान् वासुदेवः स्वयं ह्यजः ।
चतुःप्रणवसंजप्तं ततोऽम्भश्चुलुकं पिबेत् ॥ १८५ ॥
वक्त्रकुण्डेऽथ तेनैवाप्यन्नाहुतिचतुष्टयम् ।
हुत्वा चाभिमतैर्ग्रासैस्ततोऽश्नीयाद् यथारुचि ॥ १८६ ॥
अथानुयागविधिमाह—पश्चादिति षड्भिः । आत्मयागम् = अनुयागमित्यर्थः ।
अबात्मतत्त्वं विज्ञेयं विहितं तस्य सर्वदा ।
आत्मनैवात्मसिद्धयर्थं यागमन्त्रेन तेन च ॥
सह यज्ञावशिष्टेन साम्बुना च फलादिना ।
—(पौ०सं० ३९।१७१-१७२)
इति पौष्करोक्तेः । पवित्रीकृत्य चाम्भसेत्यत्र सच्चरित्ररक्षायाम्—'अयोग्यजन-
निरीक्षितत्वयातयामत्वादिदोषसंभावनायां तन्निवृत्त्यर्थं पवित्रीकरणोक्तिः' (पृ० १२५)
इति व्याख्यातम् । विनिवेद्य च देवायैत्यत्राऽन्तरात्मनिवेदनं बोध्यम् । तथा च
सच्चरित्ररक्षायाम्—
हृदि ध्यायन् हरिं तस्मै निवेद्यान्नं समाहितः ।
मध्यमानामिकाङ्गुष्ठैर्गृहीत्वान्नं मितं पुनः ॥
प्राणाय चेत्यपानाय व्यानाय च ततः परम् ।
उदानाय समानाय स्वाहेति जुहुयात् क्रमात् ॥ —(पृ० ९७)
इति कर्मकाण्डवचनमुदाहृतम् । पारमेश्वरव्याख्याने तु—'देवाय स्वगृहार्चा-
भूताय विनिवेद्य' इति लिखितम्, तदप्रकृतम्, वाक्यस्यान्तरात्मनिवेदनपरत्वात् । तथा
च सच्चरित्ररक्षायाम्—'ओदनपचने शुच्यन्नं श्रपयित्वा वेद्यां भगवते नयति । वेद्यां
भगवन्तमिष्ट्वा तत्कारिभ्यः प्रयच्छति । कारिणोऽपि प्राप्तेनान्नेन वेद्यां भगवन्तमिष्ट्वा
तद्धात्र उपनयन्ति । उपनीतेन धाता स्वयं च कुरुते शिष्टेन च भृत्यान् बिभर्ति'
इत्यादिरहस्याम्नायवाक्यार्थविचारणप्रकरणे धात उपनयन्तीति वाक्यस्यान्तरात्म-
परत्वमुक्त्वा तत्साधकत्वेन च—'विनिवेद्य च देवाय पवित्रीकृत्य चाम्भसा'
(६।१८२) (पृ० १२२) इत्यादिसात्वतवचनमुदाहृतम् ।