सामग्री पर जाएँ
सर्वकोश
सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)

सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)

Satvata Samhita of Pancharatra Agama with Commentary

भगवान् सङ्कर्षण / महर्षि नारद द्वारा

DevanagariHindipublished837 पृष्ठ

पृष्ठ 18, कुल 837 में से

संदर्भ में पढ़ें
पृष्ठ 18

प्राक्कथनम् १५

पतञ्जलेस्तथा वैष्णवमतीयपाञ्चरात्रतन्त्रस्यानुसारमेवंविधस्य वासुदेवद्वयस्य चर्चा
अस्ति, ययोरेको वृष्णिकुलोद्भवस्तथाऽपरः क्षत्रिय आसीत् ।
वासुदेवस्य वृष्णिकुलोद्भवप्रसङ्गो महाभारतस्य विशिष्टांशभूतया श्रीमद्भगव-
द्गीतयाऽपि सिद्धयति । यत्र ‘वृष्णीनां वासुदेवोऽस्मि’ इति वाक्येन प्रतिपादित-
मस्ति । कौटिल्यार्थशास्त्रे वृष्णिकुलचर्चया सह वृष्णीनां कस्यापि संघस्य वर्णन-
मप्युपलभ्यते, तथा द्वैपायनविरुद्धाचरणेन नाशस्याप्युल्लेखोऽस्ति ।
बौद्धानां घटजातके वासुदेवो मथुराप्रान्तस्योत्तरीयभागे शासनं कुर्वतां राज्ञां
राजवंशस्य सन्ततिरूपेण स्वीकृतः । तत्रेदमपि प्रतिपादितं यदुक्तराजवंशः कान्ह-
द्वीपायनावज्ञया अनशत् ।
महाभारतीयभीष्मपर्वणः पञ्चषष्टितमेऽध्याये ब्रह्मदेवेन पुरुषपरमेश्वरस्य स्तुतिर-
कारि । तथोक्तं च यद् भवान् यादववंशेऽवतरतु । पुरुषपरमेश्वरस्तत्र ‘वासुदेवः’ इति
सम्बोधनपदेनाभिहितः । उक्तं च यद् भवानेव संकर्षणरूपेणावतीर्य स्वकीयं प्रद्युम्ना-
ख्यं तनयमप्रकटयत्, तथा प्रद्युम्नाद् विष्णुस्वरूपादनिरुद्धं जनयामास । येनायमुत्पा-
दितः । अतस्तदेव रूपं स्वीकृत्य पुनः कृपया मनुष्ययोनावायातु । शान्तिपर्वणः
पञ्चषष्टितमाध्यायस्य प्रारम्भ एवोल्लिखितं यत् प्रजापतिना परमेश्वरो मानवयोनौ
वासुदेवरूपेणागमनाय प्रार्थितः । पुनस्तस्मिन्नेवाध्याये आद्यन्तावधि परमेश्वरस्थाने
वासुदेवशब्द एव व्यवहृतः ।
अस्मिन् विषये वैष्णवदर्शनस्य प्रामाणिका अन्वेषका डॉ० भण्डारकरमहोदया
एवं विचारयन्ति यद् वासुदेवेन भक्तिसम्प्रदायस्याधिष्ठात्रा भाव्यम् । प्रथमे युगेऽपि स
सङ्कर्षणानिरुद्धप्रद्युम्नैः सह आसीदित्यस्याप्याभासो महाभारतीयोल्लेखेन प्राप्यते ।
वासुदेवस्य धर्मप्रवर्तकत्वं पाणिनिरेकेन सूत्रेणापि ज्ञायते, यत्रास्य सम्प्रदायानुयायिनो
वासुदेवकपदेनाभिहिताः । यथा—‘वासुदेवार्जुनाभ्यां वुन्’ (४।३।९८) इति ।
सूत्रस्यास्योपरि भाष्यं विरचय्य भगवता पतञ्जलिनाऽपीदं दृढीकृतम् । एवम-
न्यस्मिन् ‘ऋष्यन्धकवृष्णिकुरुभ्यश्च’ इति सूत्रव्याख्यानेऽपि कथितमस्ति यद् वासु-
देवस्तथा बलदेव इत्युभे नामनी वृष्णिनामनी स्तः, तथा क्रमशौ वसुदेवबलदेव-
शब्दाभ्यां निष्पन्ने स्तः । शतपथब्राह्मणेऽप्येकत्र स्थाने वार्ष्णेयशब्दप्रयोगोऽस्ति, येन
वृष्णिवंश-प्राचीनत्वं ज्ञातुं शक्यते ।
महाभारतस्यादिपर्वणि एकत्रायातमस्ति यत् पार्थोऽथवा अर्जुनः सात्त्वतान्
लोभिनो नावगच्छति, तथा तस्मिन्नेव पर्वण्यन्यत्र वासुदेव एव सात्वतसंज्ञयाऽभि-
हितः । एवं च वासुदेवसात्त्वतशब्दयोः साम्यं प्रकटितं भवति । विष्णुपुराणे—
वृषस्य पुत्रो मधुरोऽभवत्, तस्यापि वृष्णिप्रमुखं पुत्रशतमासीत्, यतो वृष्णि-
संज्ञामेतद् गोत्रमवाप । यादवश्च यदुनामप्रत्यक्षणादिति (विष्णुपु० ४.११)। पुन-
र्विष्णुपुराणेऽस्यैवान्यतमे प्रसङ्गे यदुकुलस्य मर्यादा लौकिकैश्वर्यवर्णनप्रसङ्गे कथिता-