सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
पृष्ठ 17, कुल 837 में से
संदर्भ में पढ़ें१४ सात्त्वतसंहिता
रात्रस्य नामान्तरम् । कियान् प्राचीनो 'भागवतसम्प्रदाय' इति विषयस्यावश्यक-
सामग्र्यभावाद् निश्चितरूपेण विवेचनं दुस्तरं वर्तते, तथापि यथोपलब्धसामग्रीमेवोररी-
कृत्य किञ्चित् प्रकाश्यते—
१. सर्वप्रथममस्य विवेचनं महाभारतस्य नारायणीयोपाख्याने लभ्यते ।
२. पाणिनीयाष्टाध्यायीभाष्यप्रणेत्रा भगवता पतञ्जलिनाऽपि कृष्णरूपावतीर्णस्य
विष्णोः कंसवधबलिबन्धननामकयोर्नाटकयोरुल्लेखः कृतः, येन दैत्यराजबलेः
पातालप्रेषणस्य कंसवधस्यापि च पुष्टिर्जायते ।
यथा—'अयःशूलदण्डाजिनाभ्यां ठक्ठञौ' (५।२।७६)
इति सूत्रे भाष्ये शैवभागवतसम्प्रदाययोश्चर्चा अकारि,
यथा—'किञ्च, योऽये शूलेनान्विच्छति स आयःशूलिकः । किञ्चातः
शिवभागवतेऽपि प्राप्नोति, एवं तर्ह्युत्तरपदलोपोऽत्र द्रष्टव्यः' इति ।
विदुषां मतानुसारेण पतञ्जलेराविर्भावकालः विक्रमसंवत्सरपूर्वतृतीयशतकमस्ति।
एतेनेदमपि सिद्ध्यति यत् तृतीये शतके भागवतसम्प्रदायाभ्युदयः संजातः ।
३. महाभारतस्य शान्तिपर्वानुसारमिदं सिद्ध्यति यदयं सात्त्वतोऽथवा भागवतो
धर्मो वासुदेवेन कृष्णेनार्जुनं प्रत्युपदिष्टः । अतो भागवतधर्मस्याद्योपदेशके कृष्णे
भगवति वासुदेव ऐतिहासिक दृष्ट्या विचारणमस्योद्भवविकासादिज्ञानप्रकाशनाय
संगतं प्रतीयते ।
४. वैदिकसाहित्ये संहितासु, ब्राह्मणग्रन्थेषु, उपनिषत्सु वा वासुदेवस्यो-
ल्लेखो नोपलभ्यते । किन्तु तैत्तिरीयारण्यकदशमप्रपाठकेऽयं विष्णुवदेव व्यव-
हृतोऽस्ति । डॉ० राजेन्द्रलालमित्रमतेऽस्य रचना पश्चादभूत्, अतो वासुदेवोल्लेख-
सम्बन्धिवर्णनमिदं परिशिष्टमेवास्ति । वासुदेववर्णनञ्च तत्रैवं प्रकारेणास्ति, यथा—
'नारायणाय विद्महे, वासुदेवाय धीमहि, तन्नो विष्णुः प्रचोदयात्' इति ।
भारतीयदार्शनिकसम्प्रदायानां लब्धप्रतिष्ठान्वेषका डॉ० कीथमहोदया आरण्य-
करचनासमयः ई०पूर्वं तृतीयं शतकमिति स्वीकुर्वते । अतस्तृतीयशतकावधि विष्णु-
वासुदेवयोरैक्यं प्रतीयते । महाभारतस्य विविधस्थलेषु प्रयुक्तोऽयं वासुदेवशब्दो
विष्णुशब्देनाधिकं साम्यं भजति । तत्रैकस्थले उद्घोषितमस्ति यद् मया लोकोत्तर-
ज्योतिषा तथा सर्वं कर्तुं पटीयस्या मम मायाख्यया शक्त्या चराचरं सञ्छादितमस्ति ।
यथा—
वसनात् सर्वभूतानां वसुत्वादेव योनितः ।
वासुदेवस्ततो .... .... ... .... .... ॥
इत्यादौ महाभारतस्य तस्मिन्नेव प्रसङ्गे इदमपि वर्णितं यदहं रविरश्मिरूपे
निखिलं जगत् संछादयामि, तथाऽहमेव सर्वप्राणिनामधिवासत्वाद् वासुदेवोऽस्मि ।