सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
पृष्ठ 179, कुल 837 में से
संदर्भ में पढ़ें१२० सात्वतसंहिता
तदन्यैस्तु तिलोदकं कृत्वा पितॄनुद्दिश्य यथाशक्ति फलमूलैर्ग्रासमात्रं गवे वा
भिक्षवे वा देयमित्याह—कृत्वेति ॥ १७९ ॥
धनी से अतिरिक्त लोगों को तिल से लेकर उदकान्त तक अपनी शक्ति के
अनुसार फलमूलों के द्वारा उनको ग्रास मात्र गाय अथवा भिक्षु को प्रदान कर देना
चाहिये ॥ १७९ ॥
यस्माद् दिव्यैर्महामन्त्रैर्दत्तं यत्पूजितेऽच्युते ।
पित्रर्थमल्पं वा भूरि तत्तेषामक्षयं भवेत् ॥ १८० ॥
एवं पितॄनुद्दिश्य किञ्चिद् दत्तमपि मन्त्रमहिम्ना तदनन्तं भवतीत्याह—यस्मा-
दिति । एवमेव पितृसंविभागस्त्रिकालेष्वनुष्ठीयमानेष्वपि प्राभातिकार्चनानन्तरं माध्या-
ह्निकार्चनानन्तरं वा सकृदेव कार्य इति ज्ञेयम्, 'वह्निसन्तर्पणं षष्ठं पितृयागस्तु सप्तमम्'
(जया० २२।७९) इति । पितृसंविभागस्य भगवदाराधनाङ्गत्वोक्त्या साङ्गानुष्ठान-
सिद्ध्यर्थं प्रत्याराधनमनुष्ठेयमित्याशङ्का त्वीश्वरपारमेश्वरयोः परिहृता । तथाहि—
यत्र द्वादशकालेज्या कर्तव्या भूतिविस्तरात् ।
तत्र प्राभातिकीं कुर्यात् पूजामष्टाङ्गसंयुताम् ॥
अङ्गद्वयं तु पाश्चात्त्यं विना वा तां समाप्य च ।
पितॄणां संविभागं च अनुयागं यथोदितम् ॥
देशिकः स्वेच्छया कुर्यान्नित्यं माध्यन्दिनेऽर्चने ।
त्रिकालेष्वेकमष्टाङ्गं षडङ्गं चाचरेद् द्वयम् ॥ इति ॥
—(ई०सं० ६।७६-७८; पा० सं० ७।४३१-४३४)
एतेन स्वार्थपरार्थार्चनद्वयेऽप्येकेनैवानुष्ठिते सत्यपि न प्रत्येकं पितृसंविभागः
कार्य इति सिद्धम्, तस्यैकस्मिन्नहनि सकृदेव कर्तव्यत्वात् ।
नन्वभिगमनोपादानेज्यास्वाध्याययोगरूपपाञ्चकालिकधर्मानुष्ठानं भागवतस्य
विहितम्, तत्र परार्थानधिकारिभिः स्वार्थेज्यया क्रियते, तदधिकारवतां युष्माकं परार्थ-
संज्ञकश्रीयादवाद्रीयादिदिव्यस्थलाविर्भूतश्रीमन्नारायणाद्यर्चनेनैव कृतकृत्यत्वात् पनुः किं
स्वार्थसंज्ञकस्वगृहार्चनेनेति चेत्, सत्यम्, 'परार्थः सूर्यसदृशः स्वार्थस्तु गृहदीपवत्'
इतीश्वरोक्तेः, सूर्यप्रकाशेनैव कृतार्थत्वेऽपि स्वगृहेऽपि दीपारोपणवत् स्वार्थार्चन-
स्याप्यपेक्षित्वात्,
केशवार्चा गृहे यस्य न तिष्ठति महीपते ।
तस्यान्नं नैव भोक्तव्यमभक्ष्येण समं हि तत् ॥
इति स्वगृहेऽपि भगवद्विम्बार्चनस्यावश्यकत्वोक्तेः । 'स्वार्थस्यापि परार्थस्य
पूजायामधिकारिणः' इत्युभयत्राप्यधिकाराच्चास्माकमपि स्वार्थं भगवदाराधनमाव-
श्यकमिति बोध्यम् ।
ननु चाऽस्तु नाम भवतां स्वार्थपरार्थार्चनयोरधिकारः, स्वगृहे भगवदर्चनावश्य-
कत्वमपि । स्वार्थपरार्थाधिकारिणो भवदीया बहवः सन्ति । न हि सर्वैरपि सर्वदा
परार्थयजनं क्रियते । अतः परार्थाराधनं कुर्वतैव स्वार्थाराधनमपि कार्यम् । पितृ-