सामग्री पर जाएँ
सर्वकोश
सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)

सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)

Satvata Samhita of Pancharatra Agama with Commentary

भगवान् सङ्कर्षण / महर्षि नारद द्वारा

DevanagariHindipublished837 पृष्ठ

पृष्ठ 176, कुल 837 में से

संदर्भ में पढ़ें
पृष्ठ 176

षष्ठः परिच्छेदः ११७
स्थापितस्त्वनुयागार्थं प्रापणांशः पुरा तु यः ।
तस्मात् किञ्चित् समादाय संविभागं समाचरेत् ।
पितॄणां चैव बन्धूनामाश्रितानां तथैव च ।
संविभागावशिष्टेन स्वानुयागं समाचरेत् ।
यद्वा स्थाल्यवशिष्टं च किञ्चिदादाय पात्रगम् ।
प्राग्वन्निवेद्य देवाय तेन पित्र्यं समाचरेत् ।
ये वैश्वदेवनिरता विप्राद्या वैष्णवाश्च ते ।
यल्लब्धं भगवद्भुक्तं तस्मादादाय चांशकम् ।
तेन कृत्वा वैश्वदेवमवशिष्टांशकेन तु ।
कुर्युः प्राणादियात्रां तु विधानेन द्विजोत्तम ॥ इति ॥
सच्चरित्ररक्षायां (पृ० १२७-१२८) चोदाहृता इमे श्लोकाः । अन्नपात्राणी-
त्यत्र पारमेश्वरे—
तमालकदलीपूर्वदलेषु क्षालितेषु च ॥
संविभज्य चतुर्थात्रं निधाय प्रणवेन तु । —(७।२९९-३००)
इत्युक्तं ज्ञेयम् । स्तरोर्ध्वे निधायेत्यत्र मन्त्रश्चोक्तः पारमेश्वरे—
प्राग्वत् स्वधावसानाद्यैर्मन्त्रैरोङ्कारपूर्वकैः ।
हृन्मन्त्रालङ्कृतैर्विप्र तथा संज्ञापदान्वितैः ॥
पिण्डं प्रकल्पयामीति ततः पूर्ववदाचरेत् ।
—(७।३०३-३०४) इति
पिण्डोपरि दर्भैराश्छादनं पूर्वमास्तरणोपरि भावितानां पितृपितामहादीनां तत्रा-
वाहनं च प्रतिपादितं तत्रैव—
प्रणवैर्दक्षिणाग्राणि सेचितानि तिलाम्बुना ॥
नाडीरूपाणि दर्भाणि पिण्डानामूर्ध्वतो न्यसेत् ।
प्रविष्टान् भावयेत् तेषु नाडीमार्गैरनुक्रमात् ॥
पितॄनावाहयामीति स्तरोर्ध्वं प्राक्स्थितांस्ततः ।
—(७।३०४-३०६) इति ।
अर्घ्यादिनेत्यत्रादिशब्देन गन्धादयो ग्राह्याः । अप्य(थ योऽत्र नाव? ययोगतः
पितॄनावाह)यामीति स्तरोर्ध्वं गतः । चातुरात्मीयैमन्त्रैः ॐपुरुषाय नम इत्यादि-
भिश्चतुर्भिः पूर्वोक्तैर्मन्त्रैरित्यर्थः । नाम्ना गोत्रेण मन्त्रपूर्वं तिलोदकं दद्यादिति । अत्रैवं
प्रयोगः—ॐपुरुषाय नमः, मौञ्ज्यायनगोत्राय नृसिंहशर्मणे पुरुषरूपिणे पित्रे इदं
तिलोदकं ददामीति । एवं पितामहादीनाप्यूह्यम् । अर्घ्यादिसमर्पणेऽप्येवमेव मन्त्रा
ज्ञेयाः ॥ १६५-१६८ ॥
देवताओं के निवेदन से शेष बचे हुए अन्न पात्रादि परिस्तरण के ऊपर रखे ।
इसके बाद पुरुषाय नमः इत्यादि चतुरात्म्य मन्त्रों से क्रमशः पितरों की अर्घ्यादि
द्वारा पूजा करे । फिर नाम गोत्र उच्चारण कर सभी को अर्घ्य कलश से तिलोदक
निकाल कर क्रमानुसार प्रदान करे ॥ १६५-१६८ ॥