सामग्री पर जाएँ
सर्वकोश
सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)

सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)

Satvata Samhita of Pancharatra Agama with Commentary

भगवान् सङ्कर्षण / महर्षि नारद द्वारा

DevanagariHindipublished837 पृष्ठ

पृष्ठ 168, कुल 837 में से

संदर्भ में पढ़ें
पृष्ठ 168

षष्ठः परिच्छेदः १०९
सर्वेश्वरस्य वै यस्माद् यद्यन्मन्त्रं महद्वपुः ॥ १३३ ॥
वाच्यवाचकरूपं तद् विज्ञेयममलेक्षण ।
तत्पुनः शुद्धसामान्यमुपचारविधौ स्थितम् ॥ १३४ ॥
यद्भोगदानमन्त्रैस्तु रहितं मान्त्रमैश्वरम् ।
मन्त्रशरीरस्यैव मुख्यत्वं तस्य वाच्यवाचकरूपेण द्वैविध्यं चाह—सर्वेश्वरस्येति
द्वाभ्याम् । अत्रावाहनमित्यनेन भद्रपीठपरिकल्पनादित्वभोगार्चनान्तविधयोऽप्युप-
लक्ष्यन्ते । तथैवोपरुंहितमीश्वरादिषु च ॥ १३३-१३५ ॥
सर्वप्रथम जल द्वारा उनका पहले की तरह आवाहन करे । अब अग्नि मध्य
में भगवान् का आवाहन कहते हैं । बिम्बादि में अर्चित भगवान् की तरह
अव्यात्मा तत्त्व रूप मन्त्र से उस सर्वेश्वर का आवाहन करे क्योंकि जितने मन्त्र
है, वही उसके महान् शरीर हैं । हे अमलेक्षण ! इसलिये मन्त्र और परमेश्वर में
वाच्य वाचक भाव सम्बन्ध होता है, ऐसा समझना चाहिये । फिर उपचार विधि में
वे सभी सामान्य हो जाते हैं ॥ १३२-१३४ ॥
प्राक् चतुर्धा विभक्तो यस्तमादायेध्मसञ्चयम् ॥ १३५ ॥
आज्येनोभयतः सिक्तं ब्रह्मक्षीरद्रुमोद्भवम् ।
कुण्डस्य ब्रह्मभित्तिभ्यां मध्ये भागचतुष्टये ॥ १३६ ॥
निदध्यादुत्तराशान्तं प्राग्भागादितः क्रमात् ।
ईशानाग्नेयपादाभ्यां पतितं प्राक् चतुष्टयम् ॥ १३७ ॥
आग्नेयनैर्ऋताशाभ्यां विश्रान्तमपरं न्यसेत् ।
नैर्ऋतानिलसंस्पर्शि तृतीयं विनिवेश्य च ॥ १३८ ॥
वाय्वीशपदसंरुद्धं चतुर्थं तु चतुष्टयम् ।
एवं चतुर्विभक्तेन सामिधेन समासतः ॥ १३९ ॥
कुण्डमेकं चतुर्धा वै चतुर्णां संविभज्य च ।
अग्नीनामेकदेहानां चातुरात्म्यव्यपेक्षया ॥ १४० ॥
यदा य उपयोग्यः स्यात् यस्मिन् यस्मिन् हि वस्तुनि ।
स्वमूर्तेस्तर्पणार्थं च कर्मणि स्थापनादिके ॥ १४१ ॥
तदा तदा स आदेयः स्वकात् स्थानाच्च यत्नतः ।
ततः पूर्वं प्रणीतासंस्कारकाले चतुर्धा विभक्तस्य षोडशेध्मस्येदानीं
कुण्डमध्ये आ(वाह? हव)नीयादिविभागार्थं प्रागादिषु ब्रह्मस्थानभित्त्योर्मध्ये
तत्तत्कोणद्वयसंरोधेनेध्मप्रक्षेपमाह—प्राक् चतुर्धेत्यादिभिः स्वकात् स्थानाच्च यत्नत
इत्यन्तैः ॥ १३५-१४२ ॥