सामग्री पर जाएँ
सर्वकोश
सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)

सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)

Satvata Samhita of Pancharatra Agama with Commentary

भगवान् सङ्कर्षण / महर्षि नारद द्वारा

DevanagariHindipublished837 पृष्ठ

पृष्ठ 145, कुल 837 में से

संदर्भ में पढ़ें
पृष्ठ 145

८६ सात्वतसंहिता
धूमायमानं सिद्धार्थैर्भ्राम्य मूर्ध्नि बहिः क्षिपेत् ।
ततः स्नानान्तनीराजनविधिमाह—सम्पूर्णमिति द्वाभ्याम् । सम्पूर्णमित्यत्र स्नानी-
यशेषेणेत्यध्याहार्यम् । तथा च लक्ष्मीतन्त्रे—'स्नानशिष्टाम्बुसम्पूर्णम्' (३९।१४)
इति । ईश्वरपारमेश्वरयोरपि—'ततः स्नानीयशेषेण हेमादिद्रव्यनिर्मितम्' (ई०सं०
४।१५९; पा०सं० ६।३२७) इति । मल्ल कम् = शरावः । एकस्मिन् पाणौ
वामपाणावित्यर्थः । अपरस्मिन् दक्षिणपाणावित्यर्थः । तस्य सिद्धार्थैर्धूमायमानत्वो-
क्त्याऽग्निपरीतत्वं ज्ञायते । धूपपात्राग्निरेव तत्र पूरणीयः । मूर्ध्नि भ्राम्येत्यत्र भगव-
न्मूर्ध्नः परितो भ्रामणम् । तच्च सकृदेव । बहिः महाद्वाराद् बहिरित्यर्थः । तथा च
पारमेश्वरे—
तं कृत्वा वामपाणौ तु अपरस्मिंस्तु मल्लकम् ।
पुष्पप्रकरसम्पूर्णं धूपपात्राग्निना युतम् ॥
धूमायमानं सिद्धार्थैर्धूपद्रव्येण वा सह ।
एकधा देवदेवस्य भ्रामयित्वा तु मूर्धनि ॥
दीक्षितेन जनेनैव परिचर्यापरेण तु ।
शुद्धया योषिता वापि द्वारबाह्ये विसर्जयेत् ॥ इति ॥
—(पा०सं० १५।१००४-१००६)
नीराजनाङ्गार्घ्यादीनामर्पणमपीदानीं न प्रकृ(तमित्यु)क्तं तत्रैव—
कुर्यात् स्नानावसाने तु ऋग्गाद्यध्ययनादिकम् ।
अर्घ्यादिभोगैर्व्यजनं वर्जयेत् तत्र सर्वदा ॥ इति ।
—(पां०सं० १५।१०७९)
एवं नीराजनस्य नैमित्तिककाम्यपूजनयोरप्यनुष्ठेयत्वं तत्प्रयोजनम् । इदानीम्,
अलङ्कारासनोपचारान्ते वा, उभयत्र वाऽस्यानुष्ठानमप्युक्तं तत्रैव—
नित्ये नैमित्तिके विप्र तथा काम्येऽपि पूजने ॥
अन्ततः स्नानभोगानां कुर्यान्नीराजनं विभोः ।
सर्वदोषप्रशान्त्यर्थं सर्वरक्षार्थमेव हि ॥
अलङ्कारासनोक्तानां भोगानामन्ततोऽपि वा ।
उभयत्रापि वा कुर्याद् विभवेच्छानुसारतः ॥ इति ।
—(पा०सं० १५।९९२-९९५)
अस्य नीराजनस्यालङ्कारासनोपचारान्तेऽप्यनुष्ठेयत्वं पुनर्व्यक्तमाम्रेडितं तत्रैव—
यद्वा तत्रापि वै कुम्भं साग्निमल्लकसंयुक्तम् ।
धूमायमानं सिद्धार्थैर्भ्रामयेद् दीपवर्जितम् ॥ इति ।
(पा०सं० १५।१०४१-१०४२)
किञ्च, स्नानान्तनीराजनकुम्भस्यार्घ्योदकैः केवलौदकैर्वा पूरणं ज्ञेयम्, 'अर्घ्य-
पात्रोद्धृतैर्यद्वा केवलैर्गलितैः पुनः' (पा०सं०१५।१००८) इत्युक्तेः ॥ ४२-४४ ॥