सामग्री पर जाएँ
सर्वकोश
सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)

सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)

Satvata Samhita of Pancharatra Agama with Commentary

भगवान् सङ्कर्षण / महर्षि नारद द्वारा

DevanagariHindipublished837 पृष्ठ

पृष्ठ 143, कुल 837 में से

संदर्भ में पढ़ें
पृष्ठ 143

८४ सात्वतसंहिता
अथ पुनरेव नारायण इति तृतीयकलशेन तु ।
अथ पुनरेव नारायण इति चतुर्थतः ... ... ॥
सहस्रशीर्षं पुरुषमिति पञ्चमकुम्भतः ।
पतिं विश्वस्यात्मेश्वरमिति वै षष्ठकुम्भतः ॥
नारायणः परं ब्रह्म इति वै सप्तमेन तु ।
यच्च किञ्चिज्जगत्यस्मिन्निति ह्यष्टमकुम्भतः ॥
अनन्तमव्ययं कविमिति नवमेनाभिषेचयेत् ।
अधो निष्ट्या वितस्त्यां तु इति स्याद्दशमेन वै ॥
सन्ततं तु सिराभिस्तु लमित्येकादशेन तु ।
तस्य मध्ये महानग्निरिति द्वादशमेन वै ॥
सन्तापयति स्वं देहमिति त्रयोदशेन वै ।
नीलतोयदमध्यस्था इति चतुर्दशेन वै ॥
तस्याः शिखाया मध्ये इति पञ्चदशेन वै ।
सर्वस्य वशिनं देवमिति वै षोडशेन तु ॥
बहिरावरणस्थैस्तु कलशैरभिषेचयेत् ।
बहिरावरणे नास्ति इति प्राक्संस्थितेन तु ॥
यन्नाभिपद्माद्भवदिति वह्निगतेन तु ।
धृतोर्ध्वपुण्ड्र परमेति याम्यदिक्संस्थितेन तु ॥
दक्षिणे तु भुजे विप्र इति यातुगतेन वै ।
विष्णुनात्तमश्नन्तीति वारुणीसंस्थितेन तु ॥
पुंप्रधानेश्वरो विष्णुरिति वायुगतेन वै ।
इमां महोपनिषदमिति सोमगतेन वै ॥
ओमिति प्रथमं नाम इतीशानगतेन तु ।
पुरुषोऽहं वासुदेव इति मध्यगतेन तु ॥
यद्वा पुरुषसूक्तीयैर्मन्त्रैः षोडशभिः क्रमात् ।
बहिरावरणस्थैस्तु कलशैरभिषिच्य च ॥
पूर्वोक्तैर्ब्रह्मसूक्तस्थैर्मन्त्रैर्द्विद्विकसंख्यया ।
अन्तरावरणस्थैस्तु संस्नाप्य कलशैः क्रमात् ॥
अवशिष्टैस्त्रिभिश्चान्ते मध्यकुम्भेन सेचयेत् ।
—(ई०सं० १२।६५-८०; पा०सं० १७।५६८-५८३)
इत्युक्ताः । अत्र पूर्वोक्तैर्ब्रह्मसूक्तस्थैर्मन्त्रैः 'सहस्रशीर्षम्' इत्यादिभिः 'दक्षिणे तु
भुजे विप्र' इत्यन्तैः षोडशमन्त्रैरित्यर्थः । द्विद्विकसंख्यया द्वाभ्यां मन्त्राभ्यामित्यर्थः ।
अवशिष्टैस्त्रिभिः विष्णुनात्तमश्नन्तीत्यादिभिः । 'एको ह वै नारायणः' इत्याद्याः 'य
इमां महोपनिषदम्' इत्यन्तास्त्रयोविंशतिमन्त्राश्च महोपनिषद्गताः । तत्र 'सहस्रशीर्षं
पुरुषम्' इति प्रक्रम्य 'य इमां महोपनिषदम्' इत्यन्तमेकोनविंशतिमन्त्रात्मकं ब्रह्मसूक्त-
मिति ज्ञेयम् ।