सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
पृष्ठ 141, कुल 837 में से
संदर्भ में पढ़ें८२ सात्वतसंहिता
देयमुद्वर्तनार्थं तु चमषी तदनन्तरम् ।
स्नानार्थं खलिसंयुक्तं तोयमुष्णमनन्तरम् ॥ ३४ ॥
चन्दनं मुखलेपार्थं घृष्टं कर्पूरभावितम् ।
फिर उद्वर्तन के लिये चमषी (तैल निकालने के लिये सुगन्धि द्रव्य विशेष, मल
दूर करने के लिये द्रव्य विशेष) उसके बाद स्नान के लिये खली संयुक्त उष्ण जल
देवे । फिर मुख पर लेप के लिये कर्पूर भावित घिसा हुआ चन्दन देवे ॥ ३४-३५ ॥
क्षीरपञ्चविंशतिकलशस्नपनप्रकारकथनम्
गव्यं प्रभूतं स्नानार्थं क्षीरं दधि घृतं मधु ॥ ३५ ॥
ऐक्षवं तु रसं हृद्यमभावे शार्करोदकम् ।
धात्रीफलोदकं चैव लोध्रतोयमनन्तरम् ॥ ३६ ॥
रक्तचन्दनतोयं च रजनीनीरमुत्तमम् ।
ग्रन्थिपल्लववार्यैव ततस्तु तगरोदकम् ॥ ३७ ॥
प्रियङ्गुवारि तदनु मांसीजलमतः परम् ।
सिद्धार्थकौदकं चैव सर्वौषधिजलं ततः ॥ ३८ ॥
पत्रपुष्योदके चैव फलबीजोदके तथा ।
गन्धोदकं च तदनु हेमरत्नजले ततः ॥ ३९ ॥
पुण्यतीर्थसरित्तोयं केवलं तदनन्तरम् ।
स्नानार्थं कल्पितेनैव ह्युदकेन विमिश्रितम् ॥ ४० ॥
योक्तव्यं क्रमशो ह्येतदर्घ्यपुष्पसमन्वितम् ।
अन्तरान्तरयोगेन स्नानानां च महामते ॥ ४१ ॥
क्षालनं चार्घ्यकलशादर्घ्यदानं समाचरेत् ।
अथ क्षीरादिपञ्चविंशतिकलशस्नपनप्रकारमाह—गव्यमित्यादिभिः । धात्रीफलम्
= आमलकम्, लोध्रं = श्वेतलोध्रम्, 'गालवः शबलो लोध्रः' (२।४।३३) इत्यमरः ।
ग्रन्थिपल्लवं = स्थौणेयम् 'ग्रन्थिपर्णं शुकं बर्हं स्थौणेयं कुक्कुटम्' (२।४।१३२)
इत्यमरः । तगरं तथैव प्रसिद्धम् । प्रियङ्गुः = फलिनी, 'प्रियङ्गु फलिनी फली'
(२।४।५५) इत्यमरः ।
ननु 'स्त्रियौ कङ्गुप्रियङ्गू द्वे' (२।९।२०) इत्यमरवाक्यमप्यस्ति, विनिगमना-
विरहात् कङ्कुरेव गृह्यतामिति चेन्न, अस्मिन् स्नपने बीजवारिणि कङ्गोः सत्त्वाद् अत्रत्य
प्रियङ्गुशब्दस्य पूर्वोत्तरयोर्गन्धद्रव्यसाहचर्याच्च फलिनीपरत्वमेवाङ्गीकार्यम् । मांसी =
जटामांसी । सिद्धार्थकः = श्वेतसर्षपः । सर्वौषधीजल-पत्रोदक-पुष्पोदक-फलोदक-
बीजोदक-गन्धोदक-रत्नोदकानां द्रव्यविवरणमीश्वरपारमेश्वर्योः स्नपना-ध्याये
व्यक्तमुक्तं ग्राह्यम् । अत्रापेक्षितकलशाधिवासादिकमपि तत्रैव ग्राह्यम् । अत्र नित्य-